________________
कुमारपालदेवचरितम् ।
भवबीजाङ्करजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥३६७॥ इत्यादि हेमसूरीणां स्तुत्यनन्तरमादरात् । भूपोऽपि शम्भुमभ्यर्च्य न्यषदद् दानमण्डपे ॥३६८।। तुलापुरुषदानानि गजदानानि भूरिशः । विधाय कृतकृत्यात्मा नृपः प्रोचे प्रभूनिति ॥३६९।। न सोमेशसमं तीर्थं न महर्षिर्भवत्समः । मत्समो नास्ति राजाऽन्यस्तदस्मिन्मिलिते त्रिके ॥३७०॥ किञ्चिन्मुक्तिप्रदं देव ! तत्त्वमाविष्कुरु प्रभो ! । विमृश्य गुरवोऽप्यूचुरलं पौराणिकोक्तिभिः ॥३७१।। शम्भुमेव तदिदानी प्रकटीकरवाण्यहम् । जानीते तन्मुखेनैव मुक्तिमार्गं यथा भवान् ॥३७२।। किमेतदपि जाघट्टि संशयाने नृपेऽवदत् । एकाग्रमानसावावां सर्वं सङ्घटते ततः ॥३७३।। किन्तु कृष्णागुरुः क्षेप्यस्त्वया ध्यानं मया पुनः । तावद् विधेयं प्रत्यक्षः शम्भुर्भवति यावता ॥३७४।। क्षणाद्दीपेषु शान्तेषु धूपधूमे च सर्पति । द्वादशात्मप्रकाशाभे महत्तेजसि जाग्रति ॥३७५।। जलाधारोपरि मापो जात्यजाम्बूनदद्युतिम् । चर्मचक्षुर्दुरालोकं ददशैकं तपस्विनम् ॥३७६।। आपादमस्तकं स्पृष्ट्वा मुनि निस्तन्द्रया दृशा । पञ्चाङ्गं चुम्बितक्षोणिः प्राञ्जलिः प्राह तं नृपः ॥३७७॥ कृतार्थे नयने मेऽद्य जगतीश ! तवेक्षणात् । किन्तु मुक्तिप्रदं तत्त्वमुक्त्वा कर्णौ कृतार्थय ॥३७८।। अथाविरासीद् दिव्या गी राजन्नेष महामुनिः । सर्वदेवावतारश्च सर्वज्ञश्च कलावसौ ॥३७९॥
1. A ०दानादि । 2. B तवेदानीं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org