________________
10
कुमारपालचरित्रसङ्ग्रहः गच्छतः पादचारेण शोभामुपलभामहे । प्रस्थाय परमद्यैव नमन्तस्तीर्थमण्डलीम् ॥३५४।। देवपत्तनप्रवेशे भवद्भिर्मिलनेच्छवः । अनुमत्या नरेन्द्रस्य ततः श्रीहेमसूरयः ॥३५५॥ शत्रुञ्जयोज्जयन्तादितीर्थमालां कृतादरम् । नमन्तः सपरीवारा निरूपितदिनोपरि ।।३५६।। मिलिता गूर्जरेशस्य प्रवेशे पत्तनस्य च । जहर्ष सोऽपि केकीव दृष्ट्वा सूरीन् घनानिव ॥३५७॥ बृहस्पत्यभिधानेन गण्डेनानुगतो नृपः । गाढं सोमेश्वरं लिङ्गमालिलिङ्गानुरागवान् ॥३५८।। श्रीजैनादपरं देवं नामी वन्दन्त इत्यसौ । मिथ्याग्वचसा भ्रान्तो भूपः सूरीनभाषत ॥३५९।। 'भगवन् ! यदि युज्येत तदेतैर्बलिभिः स्वयम् । अर्चयन्तु प्रभुं शम्भु' समयज्ञस्ततो गुरुः ॥३६०।। तदैवोद्गमनीयेन भूपादिष्टेन भूषितः ।। आरुह्य चैत्यदेहल्यां शम्भुं दृष्ट्वेदमभ्यधात् ।।३६१।। 'अहो ! दिष्टयाद्य दृष्टोऽसौ कैलासवसतिः प्रभुः' । उपहारप्रकारास्तत् क्रियन्तां द्विगुणा इति ॥३६२।। आह्वाननादिमुद्राभिDसैरंशादिभिश्च सः । पञ्चोपचारैरभ्यर्च्य शिवं शैवागमोक्तिभिः ॥३६३।। कर्पूरागुरुनैवेद्यवस्तुभिर्द्विगुणीकृतैः ।। स्वयमान→ सूरीन्द्रः शम्भुं विधिवदादरात् ॥३६४।। सामन्तशतसंयुक्ते विस्मिते राज्ञि पश्यति । दण्डप्रणामपूर्वं स स्तोतुमेवं प्रचक्रमे ।।३६५॥ यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुषः स चेद् भवानेक एव भगवन् ! नमोऽस्तु ते ॥३६६॥
15
20
25
1. B मनन्तः । 2. B ०वसति प्रभुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org