________________
४७
5
कुमारपालदेवचरितम्।
समियायान्यदा पञ्चकुलप्रस्थापिता द्रुतम् । विज्ञप्तिः खरशिलाया निवेशानन्दसूचिका ॥३४१।। विज्ञप्ति दर्शयन् प्रीतः प्रभून् प्राह नराधिपः । निर्विघ्नं स्याद् यथा चैत्यं प्रसाद्यादिश्यतां तथा ॥३४२।। प्रभवोऽप्यभिनन्दन्तस्तमाहुः शृणु भूपते ! । 'श्रेयांसि बहुविध्नानि' प्रयत्नोऽत्र हितावहः ॥३४३॥ विचार्याब्रह्मसेवाया यदि वा मद्य-मांसयोः । गृहाण नियमं चैत्ये कलशारोपणावधि ॥३४४॥ तत्क्षणादुदकक्षेपपूर्वकं मद्य-मांसयोः । जग्राह नियमं सन्तः सर्वत्र प्रभविष्णवः ॥३४५।। वर्षद्वयेन सञ्जाते प्रासादे कैलशावधौ । मुमुक्षुर्नियमं राजा सूरीन्द्रानन्वमन्यत ॥३४६।। प्रभुस्तदेव तद्यात्रापर्यन्ते कृतकार्यिणः । युज्यते नियमो मोक्तुमित्युक्त्वा वसतिं ययौ ॥३४७।। तद्गुणैरुल्लसन्नीलीरागः श्रीगूर्जरापतिः । प्रशशंस तमेवैकं गुणाः कस्य न वल्लभाः ॥३४८।। उपभूपमथ प्रोचुर्जातमत्सरिणो द्विजाः । पटुचाटुपर: सर्वो राज्ञां प्रीणाति मानसम् ॥३४९।। नो चेत् प्रातरूपेतोऽयं वाच्यो यात्रां न चैष्यति । अस्मद्धर्मममी यस्माद् दूषयन्ति पदे पदे ॥३५०॥ स्वयमभ्यर्थितः प्रातर्यात्रार्थं भूभुजा प्रभुः । ऊचे वैद्योपदिष्टं चाभीष्टं चेदमुपस्थितम् ॥३५१।। सहजोत्कण्ठिताः प्रायो यात्रायै यतयो नृप ! । सिताक्षेपप्रकारोऽयं पायसे यन्निमन्त्रणम् ॥३५२।। सुखासनवाहनादि किं युष्मद्भ्यः प्रदीयताम् । नृपेणोक्ते, वयं देव ! निरारम्भपरिग्रहाः ॥३५३॥
15
20
25
1. B प्रसद्या० । 2. B विचार्य ब्रह्म० । 3. B कलशावधिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org