SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ४६ कुमारपालचरित्रसङ्ग्रहः गुरवोऽप्यागमन् दृष्ट्वा तथा मिथ्यानिवेशतः । विरोधादामिगः प्राह पुरोधाः पुरतः प्रभोः ॥३३०॥ विश्वामित्र-पराशरप्रभृतयो ये चाम्बुपत्राशिनस्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः । आहारं सघृतं पयोदधियुतं ये भुञ्जते मानवास्तेषामिन्द्रियनिग्रहः कथमहो दम्भः समालोक्यताम् ॥३३१॥ श्रुत्वेति प्रभवोऽप्याहुः स्वभावः प्राणिनामयम् । किन्तु विज्ञाततत्त्वानां विशेषः श्रूयतामिह ॥३३२॥ सिंहो बली द्विरदशूकरमांसभोजी संवत्सरेण रतिमेति किलैकवारम् । पारापतः खरशिलाकणभोजनोऽपि कामीभवत्यनुदिनं बत कोऽत्र हेतुः ॥३३३॥ इत्युक्तियुक्त्या सूरीन्द्रैः कृते तस्मिन्निरुत्तरे । 'अमी सूर्यं न मन्यन्ते' केनाप्युक्ते पुनर्जगुः ॥३३४॥ अधाम धामधामानं वयमेव स्वचेतसि । यस्यास्तव्यसने प्राप्ते त्यजामो भोजनोदके ॥३३५।। पयोदपटलच्छन्ने नाश्नन्ति रविमण्डले । अस्तङ्गते तु भुञ्जाना अहो ! भानोः सुसेवकाः ॥३३६।। इत्थं दुर्वावदूकानां मुखमुद्रापटीयसः । तानेव मेने भूपालः सर्वागममहोदधीन् ॥३३७।। ६६१७. पप्रच्छ चैकदैकान्ते भक्तिमन्थरया गिरा । कथञ्चिदपि जायेत चिरस्थायि यशो मम ॥३३८।। विमृश्य प्रभवोऽप्यूचुर्विक्रमादित्यभूपवत् । जगदानृण्यतः सोमनाथचैत्योद्धृतरथ ॥३३९।। तदैव स्थापिते श्रेष्ठमुहूर्ते मुदितो नृपः । निजपञ्चकुलं प्रेष्य चैत्यारम्भमचीकरत् ॥३४०॥ 15 20 25 1. B भोजिनोऽपि । 2. B निजं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy