________________
कुमारपालदेवचरितम्।
तावदावर्जयाञ्चक्रुर्गुरवो विविधोक्तिभिः । यावतोदयनामात्यस्तं नीत्वाऽभोजयद् गृहे ॥३१७।। स दुकूलत्रिकं लक्षत्रयं पुत्रसमन्वितम् । तदुत्सङ्गे न्यधान्मन्त्री गौरवेण गरीयसा ॥३१८॥ चाचिग: स्माह मूल्येन पर्याप्तं मितवर्तिना । अन? मत्सुतस्तस्मात् तव भक्तिर्गरीयसी ॥३१९।। दत्तस्तुभ्यं मया पुत्रश्चाचिगेनेत्युदीरिते । परिरभ्य समाचष्ट निगदन् साधु साध्विति ॥३२०॥ सखे मह्यं वितीर्णोऽसौ महा?ऽपि तवाङ्गजः । अपमानपदं भावी योगिमर्कटवन्नमन् ॥३२१।। गुरुभिः पुनराप्तोऽसौ ग्राहितः सकला: कलाः । रत्नं वैकटिकेनेव नेष्यतेऽनर्घ्यतापदम् ॥३२२॥ इति सम्बोधितः सोऽपि गुरुभ्यः सुतमर्पयत् । दीक्षामहोत्सवं प्रेम्णा स एवाचीकरत् पुनः ॥३२३॥ चक्रुस्तस्याभिधा हेमचन्द्रेति गुरवो मुदा । जातः क्रमेण शास्त्राब्धिकुम्भयोनिरसौ मुनिः ॥३२४।। न्यस्तः सूरिपदे 'योग्य'-इत्यस्य चरितं नृपः । आकर्योदयनामात्यान्मुमुदे तद्गुणेक्षणी ॥३२५।। निष्कलङ्कगुणग्रामसन्ततप्रीणितान्तरः ।। भूपः श्रीहेमसूरीन्द्रान् सदैव हृदये दधौ ॥३२६॥ पूर्वोपकारतस्तादृग्गुणग्रामाच्च सङ्गतम् ।
तयोनित्यमशोभिष्ट माणिक्य-स्वर्णयोरिव ॥३२७।। ६६१६. एकदा भूभुजा सार्धमुपविष्टां वरस्त्रियम् ।।
व्यावतिषत सूरीन्द्रा द्वारतोऽपि विलोक्य ताम् ॥३२८॥ अनीतिमिव राज्यार्थी प्रभूणां सङ्गमेच्छया । विससर्ज नरेन्द्रोऽपि तामन्तःपुरयोषिताम् ॥३२९।।
1. B ०मार्पयत् । 2. B ०योनिरयं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org