SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ४४ 10 कुमारपालचरित्रसङ्ग्रहः यदि क्षत्रकुले जातः सार्वभोमस्तदा नृपः । वणिग्विप्रान्वये जातो महामात्यः पुनर्भवेत् ॥३०४।। पुण्ययोगेन चेदस्य यतित्वमुपतिष्ठते । दुर्युगेऽपि तदाऽमुष्मिस्तुर्यं युगमुपानयेत् ॥३०५।। धात्वेति धर्मवन्मुख्यव्यवहारिभिरावृताः । सूरयस्तत्पितुर्गेहं जग्मुर्जङ्गमतीर्थवत् ॥३०६।। पतौ देशान्तस्थेऽपि पाहिणिधर्मदीपिका । आनन्दमेदुरं चक्रे सा सङ्घ स्वागतादिभिः ॥३०७|| ज्ञात्वा समागमे हेतुं गृहे पतेरभावतः । विषादानन्दसम्मिश्रां सुदती सा दशामयात् ॥३०८।। धन्याऽस्मि यस्या मे गेहे समीयुः पुरुषा अमी । मिथ्यादृष्टिः पतिः किन्तु तादृशोऽपि गृहे न हि ॥३०९।। किं करोमि कथं वक्त्रं दर्शयामि गुरोः पुरः । ध्यायन्तीति गुरुं नत्वा तस्थौ किञ्चिदवाङ्मुखी ॥३१०॥ कैश्चिदूचे शुभे ! तावन्निजदोषं निराकुरु । त्वं देहि तनयं शेषकार्ये पतिः प्रमाणता ॥३११॥ चाङ्गदेवस्ततः पृष्टः शिष्योऽमीषां भविष्यसि ? । ओमित्युक्ते ददौ माता गुरुभ्यस्तनयं मुदा ॥३१२।। प्रस्थिता गुरवस्तीर्थयात्रायां पुनरागताः । चाङ्गदेवं सहादाय भेजुः कर्णावती पुरीम् ॥३१३।। तत्रास्मदीयगेहेऽसौ सत्रागार इव श्रियाम् । रममाणः सुखं तस्थौ भृङ्गवन्नन्दने वने ॥३१४।। समेतः स्वगृहं श्रुत्वा पुत्रोदन्तं स चाचिगः । दर्शनावधिसंन्यस्तभोज्यः कर्णावती पुरीम् ॥३१५।। श्रीदेवचन्द्रसूरीणां पौषधालयमागतः । सक्रोधोऽपि मनाक् चक्रे नमस्कारं विचक्षणः ॥३१६।। 15 20 25 1. A सार्वभूप० । 2. B धनवन्० । 3. B देह । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy