________________
कुमारपालदेवचरितम् ।
जाते गमागमे स्वैरं प्रस्तावोक्तिमनोहरैः । स्नेहोऽधिकमवर्द्धिष्ट वाद्धि - चन्द्रमसोरिव ॥ २९१॥ एकदा च यशश्चन्द्रगणिना प्रत्युपेक्षितम् । आसनं हेमसूरीणां रजोहरणयुक्तितः ॥२९२॥ अज्ञातपरमार्थेन तद् दृष्ट्वाऽयुञ्जि भूभुजा । दशाभिः स्पृश्यते डिम्म इव किं न्विदमासनम् ॥२९३॥ प्रभुभिर्जगदे जीवरक्षार्थो ह्ययमुद्यमः । सस्मेरमाह भूमोऽपि किमदृष्टैरुपक्रमः ||२९४|| बभाषिरे महात्मानो राजन् ! सैन्यं चतुर्विधम् । रिपावुपस्थिते सज्जीक्रियते पूर्वमेव वा ||२९५ ।। व्यवहारो यथा राज्ये सुखकारणमायतौ । ज्ञेयस्तथायं धर्मेऽपि सिद्धये धर्मचारिणाम् ॥२९६॥ इत्याद्यनेकयुक्तीभिर्मुदितो भूभृदेकदा । पप्रच्छोदयनामात्यं पितृवंशादिकं प्रभोः || २९७॥ §§१५. शक्रपत्तनसङ्काशे देशेऽर्धाष्टमनामनि ।
सङ्केतनमिव श्रीणां पुरं धन्धुक्ककाभिधम् ॥२९८॥ तत्रास्ति मोढवंशीयश्चाचिगो व्यवहारिकः । तज्जाया पाहिणिर्नाम चतुःषष्टिकलागृहम् ॥ २९९॥ चामुण्डाया गोत्रदेव्या आद्याक्षरपवित्रितः । तयोः पुत्रश्चाङ्गदेवनामा जातोऽष्टवत्सरः ॥३००|| श्रीदेवचन्द्रसूरीन्द्राः पत्तनात् तीर्थयात्रया । प्रस्थितास्ते क्रमात् प्रापुर्धन्धुक्ककमहापुरम् ||३०१ || श्रीमोढवसतौ तैषां तस्थुषां सोऽपि बालकः । सवयोभिः समं क्रीडन् समियाय सुलक्षणः ||३०२ || चाङ्गदेवस्ततः सिद्धाविव भाग्यपराक्रमः । सिंहासनोपरि स्थाष्णुर्निषिद्यायामुपाविशत् ||३०३||
1. B ० मनौरसैः । 2. B व्यावहारिकः ।
Jain Education International
For Private & Personal Use Only
४३
5
10
15
20
25
www.jainelibrary.org