SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 5 10 ४२ 15 20 25 यतः जाते प्राणव्यये क्लृप्तं विमानं भविकैर्वरम् । महोत्सवेन महता सञ्चचार यदा पुनः ॥ २७९॥ त्रिपूरुषमठस्याग्रे जटाधारिभिरुत्कटैः । स्वभावजातिवैरेण तद्विमानमभज्यत ॥ २८०॥ Jain Education International काजु करेवा माणुसह बीजु' मागुरे न अत्थि ४ । कइ आणि 'पहु थाई कइ पहु कीजइ हथि९ ॥ २८९ ॥ उन्मूलनीयास्तत्त्वज्ञैर्धर्मद्विष्टा यथातथा । विमृश्येति च सूरीन्द्रा राजसङ्गतिकाङ्क्षिणः ॥ २८२॥ कुमारपाल भूभर्तुस्तस्थुषो मालवावनौ । स्कन्धावारमलञ्चक्रुर्जानाना आयतौ हितम् ॥ २८३॥ राजप्राप्तिनिमित्तस्य वक्तृन् सूरीन् समागतान् । श्रीमानुदयनो गत्वा स्मारयामास भूपतेः ||२८४॥ तेनाप्यनुमता जग्मुः सूरयो राजपर्षदि । आशीर्वादोक्तिवैचित्र्याद् विस्मितः स्माह भूपतिः ॥ २८५॥ सदैव समुपेतव्यं देवतावसरक्षणे । इत्युक्ते सादरं राज्ञा सूरयस्तं बभाषिरे ॥ २८६॥ कुमारपालचरित्रसङ्ग्रहः भुञ्जीमहि वयं भैक्ष्यं जीर्णं वासो वसीमहि । शीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥२८७॥ भूपः प्रोवाच युष्माभिः परलोकहितेच्छया । मैत्र्यं विधातुमिच्छामि मधुना माधवो यथा ॥ २८८॥ "एको मित्रं भूपतिर्वा यतिर्वे 'ति यदुच्यते । उभयोस्तद्धितार्थाय करयोः पुष्पदामवत् ॥ २८९॥ 'अनिषिद्धमनुमत' मिति जानन्नदापयत् । अस्खलितप्रचाराय प्रभूणां सर्वद्वयकम् ॥२९०॥ ★ B आदर्शे पाठभेदाः । १. कज्ज. २. बीजउ ३ मग्गु ४. आथि ५. आपुणि. ६. प्रभु. ७. थाइय. ८. प्रभु. ९ हाथि । 1 B श्रीमानुदय []] गत्वा च । 2. B विस्मिताश्चाह । For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy