SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ कुमारपालदेवचरितम् । विस्मितस्त्रपया तस्य सप्रसादं पुनर्नृपः । तमेव कृत्वा सैनान्यं प्रैषीद् बहुदलान्वितम् ॥२६६॥ कालुम्बिनीं समुत्तीर्य नदीं शिबिरमात्मनः । युयुधे सह तेनैव स्वयं वीररसोत्कटः ॥२६७|| प्रहारै: सिन्धुरस्कन्धान्निपात्यादाय मस्तकम् । रक्षामिव स्वशौर्यस्य स्वर्णेन तदयन्त्रयत् ॥२६८॥ आगच्छन् भृगुकच्छादिहट्टेषु न्यस्य मस्तकम् । प्रेक्षणं कारयामास जये को नाभिमन्यते ॥ २६९ ॥ आलोचनापदेऽमुष्य मदस्थानस्य धीसखः । हेमसूरिगिरा तत्र तत्र चैत्यान्यचीकरत् ॥२७०॥ आज्ञां कौमारपालीयां मण्डले तस्य दापयन् । आनर्च चरणौ राज्ञस्तच्छिरः कमलेन सः ॥२७१॥ द्वासप्तत्या निषण्णेषु सामन्तेषु च पर्षदि । सर्वस्वमुपदीचक्रे तदीयं भूभुजः पुरः || २७२॥ तथा च 'शृङ्गारकोटि:' शाटिका गुणकोटियुक् । पटो 'माणिक्य'नामा तु हारः 'पापक्षयङ्करः ' ॥२७३॥ 'योगसिद्ध्यभिधा' सिप्रा चतुष्टयमिदं तथा । षण्मूटका मौक्तिकानां चतुर्दन्तः सितो गजः ॥ २७४॥ द्वात्रिंशत्कलशा हैमा हेम्नां कोट्यश्चतुर्दश । सर्विंशति शतं पात्रप्रमदानामढौकत ॥ २७५ ॥। §§१४. प्रीतस्तस्यावदातेन भूपतिः सर्वसाक्षिकम् । 'राजपितामह' इति तस्मै तद्विरुदं ददौ ॥ २७६॥ श्रीहेमचन्द्रसूरीन्द्राः कदाचित् पत्तनेऽन्यदा । स्वमात्रे पाहिणीनामन्यै सव्रतानशनं ददुः ॥ २७७॥ एककोटिनमस्कारपुण्ये मातुरुदीरिते । कारिताऽऽराधना पूज्यैदुष्प्रतीकारितोचिता ॥ २७८ ॥ ४१ For Private & Personal Use Only 5 1. B कालुम्बिणीं । 2. B सहितेनैव । 3. B कलशा हेमकोट्यः । 4. B ०मढौकयत् । 5. B ० दानेन । 6. A ० प्रतीकारोचिता । Jain Education International 10 15 20 25 www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy