SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 5 10 ४० 15 20 25 श्लाघितः सचमत्कारं प्रभुश्रीहेमसूरिभिः । सोलाकः श्रीनरेन्द्रेण गन्धर्वाधिपतिः कृतः ॥ २५३ ॥ ६६१३. कदाचिदन्यदा सर्वावसरावस्थितं नृपम् । कोऽपि कुङ्कुणदेशीयः सिषेवे मागधोत्तमः ॥ २५४॥ सोऽन्यदा कुङ्कुणाध्यक्षमल्लिकार्जुनभूपतेः । 'राजपितामह' इति पपाठ बिरुदं सुधीः ॥२५५॥ अमर्षणः क्षमेन्द्रोऽपि बद्धवैर इवोरगः । सभासम्मुखमैक्षिष्ट कठोरतरया दृशा ||२५६ ॥ ज्ञात्वा भर्तुरभिप्रायमाम्बडः सचिवाग्रणीः । चकाराञ्जलिबन्धेन नमस्कारं नरेशितुः ॥२५७॥ सभायां तु विसृष्टायां भूपतिर्विकसन्मनाः । पप्रच्छाञ्जलिबन्धस्य कारणं सोऽप्यदोऽवदत् ॥ २५८|| स कोऽपि विद्यते मेऽत्र सभायां यो निहत्य तम् । समानयेदिति श्रुत्वा मुदितो गूर्जरापतिः ॥ २५९॥ तमेव बहुसामन्तसहितं सैन्यनायकम् । विधाय प्रेषयामास कुङ्कुणान् काम्यसिद्धये ॥ २६०॥ कादम्बिनीं समुत्तीर्य नदीं शिबिरमात्मनः । यावदावासयामास स्वामिसम्भावनाबली ॥ २६१ ॥ तावदश्वखुरैः पृथ्वीं जयभम्भामिवापराम् । वादयंस्तत्र सञ्जग्मे मल्लिकार्जुनभूपतिः ॥२६२॥ प्रवृत्ते समरे सैन्यमाम्बडस्य दिशोदिशि । दुग्धं नकुलसञ्चारादिव वित्रोटमासदत् ॥ २६३ ॥ पलाय्य धीसखः कृष्णवदनः कृष्णवस्त्रभृत् । कृष्णच्छत्रः पुरासन्नमागत्य त्रपया स्थितः ॥ २६४ ॥ सेनानिवेशः कस्यायमिति पृष्टे महीभुजा । विद्विषा परिभूतस्य श्रीमदाम्बडमन्त्रिणः ॥ २६५॥ 1. B चमत्कारं । Jain Education International कुमारपालचरित्रसङ्ग्रहः For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy