________________
कुमारपालदेवचरितम् ।
देव ! त्वद्देशसीमायामुषिता मुषिता वयम् । पृष्टे केनेति भूभा हरिणैरिति तेऽब्रुवन् ॥२४०॥ ज्ञात्वा गान्धर्वकौशल्यव्यञ्जिका इति तगिरः । नृपोऽप्युल्लासितैकभ्रुः सोलाकमुखमैक्षत ॥२४१॥ सोऽपि विज्ञपयाञ्चके देव ! युक्तममी पुनः । दर्शयन्तु निजांश्चौरान् वयमादातुमीश्महे ।।२४२॥ सोलाकेन समं तेऽथ प्रस्थिताः काननान्तरे । दर्शितास्तैर्मृगाः कण्ठे खेलत्कनकशृङ्खलाः ।।२४३।। सोलाको गातुमारेभे काकलीध्वनिपेशलम् । सञ्जाता हरिणाश्चित्रलिखिता इव तत्क्षणम् ॥२४४।। स्वपुराभिमुखं गायन्नपासर्पद् यथायथा । प्रतिभूमिरिवाकृष्टा मृगा जग्मुस्तथातथा ॥२४५।। मध्येकृत्य पुरं राजमार्गे त्रिपथचत्वरान् । नीता राजसभा सभ्यैस्तस्करा इव ते क्रमात् ॥२४६।। सर्वेऽपि विस्मिता लोकास्तद्विलोक्य कुतूहलम् । मृगा न विविदुः किञ्चिद् गीतैकाग्र्येण मोहिताः ॥२४७।। योगिनामिव तेषां तु निरुद्धेन्द्रियवर्त्मनाम् । जगृहे भूषणं हैमं गलादुत्सार्य लीलया ॥२४८।। पृष्टास्तदा नरेन्द्रेण प्रभुश्रीहेमसूरयः । प्ररोहणावधिं शुष्कतरोर्गीतकलां जगुः ।।२४९।। सोलाकेन तथेत्युक्ते भूमिपालस्तदादिशत् । कौतुकं दर्शयास्माकं पट्टबन्धं गृहाण च ॥२५०॥ सोलाकोऽपि समानाय्य श्रीमदर्बुदपर्वतात् । शुष्का विरहकाख्यस्य तरोः शाखा नृपाङ्गणे ॥२५१॥ कुमारमृत्तिकाक्लृप्तालवाले च नियोज्य ताम् ।
प्रोल्लसत्पल्लवाञ्चक्रे गीतनादानमृतप्लवैः ।।२५२॥ 1. B सोलासं मुख० । 2. B ०मैक्ष्यत । 3. A राजमार्गं । * पतितोऽयं श्लोक: A आदर्श ।
15
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org