SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 5 10 ३८ 15 20 25 अपसार्य गजं तावत् सामलस्तमपातयत् । जगृहे तलवर्गीयैर्जीवग्राहं च पत्तिभिः ॥ २२७॥ तमारोप्य गजे राजा जितं जितमिति ब्रुवन् । जयस्य सूचकं सद्यश्चेलाञ्चलमचालयत् ॥२२८॥ विष्वक् पलायमानेषु शत्रुसैन्येषु तत्क्षणम् । तदीयं सारमादाय निवृत्तो गुर्जरेश्वरः ॥ २२९ ॥ ६६११. आलिगाय कुलालाय स कृतज्ञतया ददौ । ग्रामसप्तशतीयुक्तां चित्रकूटस्य पट्टिकाम् ||२३०॥ ते पुनर्निजवंशेन लज्जमाना समृद्धितः । अद्यापि ख्यातमात्मानं सगरा इत्यजूहवन् ॥२३१॥ आच्छाद्य कण्टकैः क्षेत्रे यैस्तदानीं स रक्षितः । निजाङ्गरक्षकास्ते तु कृता विश्वस्तिभाजनम् ॥२३२॥ §§१२. सोलनामाथ गन्धर्वः स्वगीतकलयैकदा । सषोडशं द्रम्मशतं लेभे सन्तोषितान्नृपात् ॥२३३॥ लज्जितस्तेन दानेन सोलकोऽप्यवहेलया । बालकेभ्यो ददौ तद्धि समादाय सुखाशिकाम् ॥२३४॥ राज्ञा निर्वासितो देशाद् गतो वाराणसीं पुरीम् । भूमीन्द्रं जयन्तचन्द्रं शिश्राय गुणरागिणम् ॥२३५|| कलासन्तोषितात् तस्मान्मानशृङ्गारपूर्वकम् । गजेन्द्रं हस्तिनीयुक्तं गृहीत्वा पुनरागमत् ॥ २३६॥ कुर्वन्नुपायने सर्वं तं गन्धर्वं पुनर्नृपः । मानयामास सन्तो हि सद्यो गुणिषु वत्सलाः ||२३७|| लब्धप्रतिष्ठः सोलाकः सोल्लासकलयोल्बणः । गान्धर्वज्ञानसीमायां सर्वत्र ख्यातिमासदत् ॥ २३८॥ अन्यदा गायनाः केऽपि स्वकलोत्कर्षकाङ्क्षिणः । कृतबुम्बारवं राजपर्षद्येवं बभाषिरे ॥२३९॥ 1. A जग्राह । 2. B गन्धर्व्व ० । Jain Education International कुमारपालचरित्रसङ्ग्रहः For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy