________________
कुमारपालदेवचरितम् ।
सन्तज्जितः पट्टहस्तिसादी व ( ? ) उलिगाभिधः । अङ्कुशं परितत्याज प्रतिज्ञामिव निष्कुलः ॥२१४|| तत्पदे नृपतिश्चक्रे वक्रेतरगुणं नवम् ।
सादिनं सामलाभिख्यं कार्यं भाग्यानुसारि यत् ॥ २१५ ॥ कलहपञ्चाननाख्यं सोऽपि प्रक्षरितं गजम् । विधाय सायुधं तत्र नृपासनमसज्जयत् ॥२१६॥ तत्रासीनश्च चौलुक्यचक्रवर्त्ती रणोत्सुकः । ददर्श विघटमानं सैन्यं चाहडभेदतः ॥ २१७॥ समयज्ञस्तदा राजाऽऽदिदेश गजसादिनम् । एकाकिना मयैवाद्य योद्धव्यं रिपुभूभुजा ॥२१८॥ दूरात् सपादलक्षीयमुपलक्ष्य क्षितीश्वरम् । दधावे सम्मुखं तार्क्ष्य इव नागजिघृक्षया ॥ २१९॥ स्वगजेन गजं शत्रोर्दन्तादन्ति नियोजितुम् । पुरतः प्रेरयेत्याशु निषादिनमभाषत ॥ २२० ॥ तथा तमप्यकुर्वाणमूचे विघटितोऽसि किम् । सोऽपि विज्ञापयाञ्चक्रे राजानं रचिताञ्जलिः ॥२२२॥
Jain Education International
निषादी सामलो नाम करी चायं कदाचन । न शक्यते चालयितुं मर्यादाया इवाम्बुधिः ॥२२२॥ किन्त्वग्रेऽस्ति गजारूढः कुमारश्चाहडो बली । हक्काया यस्य भज्यन्ते मदान्धा अपि सिन्धुराः || २२३ || ततः कुमारपालोऽपि सिन्धुरश्रवणोपरि । स्वोत्तरीयं निचिक्षेप जयकेतुपटोपमम् ॥२२४॥
पुरः सृत्वा गजोऽपि द्राक् दन्ताभ्यां प्रतिदन्तिनः । पद्यामिव व्यधादन्तः सञ्चाराय जयश्रियः ॥२२५॥ चाहडः पूर्वभेदेन जानन् व( ? ) उलिगाभिधम् । यावता गूर्जरेशस्य गजमभ्येतुमिच्छति ॥२२६॥
1. A निष्कलः । 2. B स्मृत्वा । 3. A सञ्चराय ।
For Private & Personal Use Only
३७
5
10
15
20
25
www.jainelibrary.org