SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ३६ कुमारपालचरित्रसङ्ग्रहः रहस्यभाणि भूपेन सर्वमान्योऽसि भावुक ! । न च वाच्यमवाच्यं तु ममेत्थं मूलपर्षदि ॥२०१।। स तूत्कटतया मेने ममापि वचसा खलु । लज्जितोऽयं न जानाति तामवस्थां पुरातनीम् ॥२०२॥ ने वेद यन्नृपा-ग्नि-स्त्री-विप्राः कस्यापि न स्वकाः । तथैव पुनराह स्म भाव्यं केन निषिध्यते ॥२०३।। परेद्यवि नृपादिष्टैर्मल्लैरङ्गैः श्लथीकृतैः । नेत्रयुग्मं च निष्काश्य मन्दिराभरणीकृतम् ॥२०४।। ततो भीमभयभ्रान्तैः सामन्तैः स समन्ततः । सिषेवे सततं भक्तिर्न विभाति भयं विना ॥२०५।। 88१०. पूर्वोपकारकत्वेन से कृतज्ञशिरोमणिः । आलिगोदयनौ चक्रे प्रधानौ मतिसत्तमौ ॥२०६।। उदयनस्य सूनुश्च वाग्भटो बुद्धिवाग्भटः । महामात्य[:] कृतस्तेन शतशाखो गरीयसाम् ।।२०७।। तद्वन्धुश्चाहड: सिद्धनरेन्द्रस्य सुतोपमः । नाज्ञां कुमारपालस्य भेजेऽल्पायुरिवौषधम् ॥२०८।। किन्तु मन्तुत्रपामग्न इव कालकटाक्षितः । गत्वा सपादलक्षीयक्षोणीपतिमशिश्रयत् ॥२०९॥ श्रीमत्कुमारपालस्य सामन्तामात्यमण्डलम् । दानाद्यैर्भेदयामास सिन्धुपूर इवावनिम् ॥२१०॥ अन्यदा गूर्जरेशेन रणोत्कर्ष चिकीर्षुणा । तेन सीमान्तमानिन्ये स्वामिनः सबलो नृपः ॥२११।। श्रीमत्कुमारभूपोऽपि चतुरङ्गचमूवृतः । अभ्यमित्रीणतां भेजे रौद्रो रस इवापरः ॥२१२।। धरित्र्यां सज्जमानायां निर्णीते रणवासरे । कुमारपालभूपेन कस्मादप्यपराधतः ।।२१३॥ 25 1. B निवेदय० । 2. B विनिष्काश्य । 3. A सकृतज्ञ० । 4. B मशिश्रियत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy