________________
कुमारपालदेवचरितम्।
सिंहासनसमासीनस्तानाह स्वजनानिव ।। क्रियतामभिषेको भोस्तत: कृष्णभटादयः ॥१८८।। मन्वाना राज्यधौरेयं गुणप्राज्यमजेयकम् । अभिषेकविधिं चक्रुर्मङ्गलध्वनिपूर्वकम् ॥१८९॥ - विशेषकम् । तच्छीर्षे क्षेपिता मुक्ता सेतिकाऽभूत् सपल्लिका । ततो जय जयेत्युक्त्वा नेमे कृष्णभटादिभिः ॥१९०।। कुमारपालभूपालो नान्दीनि?षपूर्वकम् । पट्टहस्तिसमारूढो मण्डितो मण्डलेश्वरैः ॥१९१॥ धार्यमाणसितच्छत्रो वीज्यमानश्च चामरैः । गृह्णन् पौराशिषः प्राप राजप्रासादमण्डपम् ॥१९२॥ - युग्मम् । 10 कृतोपकारानाह्वाय्य सर्वानुपचकार सः । मुमोच सहकाराणामाज्ञासारः करं रयात् ॥१९३।। अपुत्रिणां सर्वाथापि मुक्त्वा निधनवद्धनम् । स धर्मी विजयी राजा दिक्षु यात्रामसूत्रयत् ॥१९४|| स प्राचीमादितः सिन्धुमाविन्ध्यं दक्षिणामपि । पश्चिमामासमुद्रं च कौबेरीमाम्लिशोऽजयत् ॥१९५।। पञ्चाशद्वर्षदेशीयः प्रौढबुद्धितया नृपः ।
सर्वदेशस्वरूपज्ञः स्वयं साम्राज्यमन्वशात् ॥१९६।। ६६९. तद्वधार्थमथामात्यवृद्धा भूपच्छलैषिणः ।
सान्धकारप्रतोलीषु मुमुचुर्घातकान् रहः ॥१९७।। भाग्याकृष्टेन केनापि ज्ञापितेऽर्थे महीपतिः । प्रविवेशापरद्वारा पुण्यं कुत्र न रक्षकम् ॥१९८॥ कृतद्रोहानथामात्यान् प्राहिणोद् यमपर्षदि । प्रभुतायाः परो धर्मो निग्रहानुग्रहौ यतः ॥१९९।। स कृष्णभटदेवस्तु सहजैः शालकोद्भवैः ।
सर्वदावसरे जाते नर्ममाण्युदाहरत् ॥२००।। 1. B धर्मविजयी । 2. A ०माम्लेच्छेशो। 3. A तद्वधार्थं महामात्यवृद्धा । 4. A ०छलेक्षिणः । 5. A निग्रहानुग्रहौ ।
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org