________________
5
कुमारपालचरित्रसङ्ग्रहः तवैव पादयोः पद्मरूपयोरुचितं ह्यदः । चेन्नास्ति मूल्यं तन्मेऽस्तु प्राभृतं तव पादयोः ॥१७५।। यदा कुमारपालाख्यं राजानं गूर्जरावनौ ।
श्रोताऽसि चर्मकार ! त्वं शीघ्रमेयास्तदा मुदा ॥१७६।। ६८. अथ श्रीपत्तने सिद्धनृपधुगमने सति ।
आकर्ण्य पादुकाराज्यं विदंश्च समयं निजम् ॥१७७|| प्रतिपन्नमातुलस्य सदनेऽपि द्विजन्मनः । कन्नाली-सिद्धपुरके मुक्त्वा सर्वं कुटुम्बकम् ॥१७८।। कुमारपालः श्रीकृष्णभटस्य भगिनीपतेः । गत्वा गृहे निशि निजां भगिनीं पत्तनेऽनमत् ।।१७९।। -त्रिभिविशेषकम् । जामिः प्रेमलदेवी तु गौरवेण सहोदरम् । संस्नप्य भोजयामास स्नेहकृत्यमिदं यतः ॥१८०॥ श्यामां शाकुनिकस्तस्य स्नातां स्नानीयवारिणि । निरीक्ष्य सप्तदिवसाभ्यन्तरे राज्यमाख्यत ॥१८१।। विज्ञप्तं तद्भगिन्याऽपि पत्युरेषोऽपि पक्षभाक् । अस्यैव राज्यं नान्यस्येत्यूचे मण्डलनायकः ॥१८२।। ततो महीतटाभिख्यदेशाध्यक्षेण सादरम् । राजानकेन विजयपालेनालोचमाचरत् ॥१८३॥ शुभेऽह्नि मिलितानेकप्रधानजनमण्डिते । प्रासादे श्रीजयसिंहमेरौ द्वावपि सङ्गतौ ।।१८४।। प्रधानैरथ राज्यार्थमाहूतः परमार्हतः । महीपालः स तान् नत्वा प्राहादेशं प्रदत्त मे ॥१८५।। तं दीनमित्यवज्ञाय रत्नपालमजूहवन् । नत्वा शम्भुं ततस्तांश्च सोऽपि प्रोवाच पूर्ववत् ॥१८६।। अथो कुमारपालाख्य आहूतः सोऽपि धीरदृक् । महेश्वरं नमस्कृत्य संवृत्य च पटाञ्चलान् ।।१८७।।
15
20
1. B ऽस्य । 2. A यामिः । 3. A संस्नाप्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org