________________
कुमारपालदेवचरितम्।
मध्ये कृत्य दशपुरं चित्रकूटपुरे ततः । शान्तिचैत्ये गुरो रामचन्द्रस्य वसतौ गतः ॥१६२।। विलोक्या_लिहं दुर्गमन्वयुत तदुद्भवम् । चित्राङ्गदनृपोपज्ञं शुश्राव स्वर्णपूरुषम् ॥१६३।। कान्यकुब्जपुरं प्राप्तो बहुभूतैरधिष्ठितम् । दृष्ट्वा लक्षाम्रमारामं तत्रत्यानन्वयुक्त सः ॥१६४।। तैरूचे सहकाराणां करो नात्रत्यमण्डले । अतोऽधिष्ठायका यत्र वसन्ति निरुपद्रवाः ॥१६५॥ राज्ये जाते स्वदेशेऽहं मोक्ष्ये चूतकरं ध्रुवम् । विमृशन्निति भूपालसूनुर्वाराणसी ययौ ॥१६६।। वणिजा केनचित्तत्र वस्त्राणि ददिरे मुदा । लुण्ट्यमानं द्वितीयेऽह्नि तद्गृहं वीक्ष्य कञ्चन ।।१६७।। पप्रच्छ किमिदमिति ?, प्रोचे तेनापि कोऽप्यसौ । अपुत्रोऽस्ति मृतस्तेन लुण्ट्यते राजपूरुषैः ॥१६८।। तदुःखवीक्षणोत्पन्नकृपश्चेतस्यकल्पयत् । न ग्रहीष्याम्यहं स्वीयराज्ये धनमपुत्रिणाम् ।।१६९।। मध्येऽथ पाटलीपुत्रं पुरं राजगृहं गतः । वैभारगिरिमारुक्षत् पश्यश्चित्रपरम्पराम् ॥१७०॥ ययौ जयपुरे स्थाने नवद्वीपकनीवृत्ति । कामरूपे ततोऽगच्छत् कामाक्षावीक्षणक्षणी ।।१७१।। प्रशास्ति नागरूपेण यत्र राज्यं महीपतिः । भीत्या भौतिकदेवस्यावजिते तत्र सोऽगमत् ॥१७२।। बालचण्डाभिधानस्य हट्टे चर्मकृतो ययौ । उपानयुगलं रम्यं स तस्य पादयोwधात् ।।१७३।। ईद्दगुपानदुचितं वेतनं दातुमक्षमः । इत्युक्ते कुमारेणोच्चैश्चर्मकारोऽपि तं जगौ ॥१७४।।
1.-A किञ्चन । 2. B दैवक्यावजिते । 3. A बालचन्द्रा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org