SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ३१ . कुमारपालदेवचरितम् । तेनापि स्थापिताः सर्वदिक्षु तद्दर्शिनो नराः । उपलक्ष्य समानिन्ये नृपपर्षदि तैरपि ॥१३६।। निवेश्यार्द्धासने भूमिपालेनाऽपि स सादरम् । राज्यार्धमर्थयाञ्चक्रे तदुक्त्वा शम्भुवाचिकम् ॥१३७।। निषिध्य राज्यं तत्रास्थात् कुमारोऽपि यथासुखम् । भूयोऽप्यभ्यर्थितः प्राह कीर्तनं मे विधापय ॥१३८।। दशगव्यूतविस्तारिवासे कोलम्बपत्तने । भूमिसङ्कोचतो राजा सङ्क्षिप्य निजमन्दिरे ।।१३९।। कुमारपालनामाङ्कं प्रवर्त्य वरनाणकम् । कुमारपालेश्वराख्यं चारु चैत्यमचीकरत् ॥१४०।। -युग्मम् । ६६. कीर्त्या प्रकाशयन् विश्वं प्रतिष्ठानपुरं गतः ।। द्विपञ्चाशतो वीराणां स स्थानाश्चर्यमैक्षत ॥१४१।। पुनरुज्जयिनी प्राप्य सङ्गतोऽभिजनैनिजैः ।। अन्यदा तत्पुरोद्याने कुडङ्गेश्वरमासदत् ॥१४२।। व्याप्तं सप्तफणैलिङ्गं तन्मध्ये स प्रणम्य च । प्रशस्ति वाचयंस्तत्र गाथामेनामवाचयत् ॥१४३।। पुन्ने वाससहस्से सयम्मि वरिसाण नवनवइ अहिए । होही कुमरनरिंदो तुह विक्कमराय ! सारिच्छो ॥१४४॥ विमृश्य नामसादृश्यं वर्षाणां चापि पूर्णताम् । अन्वयुक्त तदर्थं स जैनान् सर्वज्ञपुत्रकान् ॥१४५।। पूर्वं प्रभावको जज्ञे सिद्धसेनो दिवाकरः ।। बुद्धिदर्पण सोऽप्राक्षीदन्यदा स्वगुरूनिति ।।१४६।। भवन्ति प्राकृता ग्रन्थाः पण्डितानां त्रपाकराः । प्राकृतं सर्वसिद्धान्तं संस्कृतं करवाण्यहम् ॥१४७|| प्रायश्चित्तं त्वया प्राप्तं वत्स ! पाराञ्चिकाभिधम् । किं नाभूवन् न श्रुता वा प्राचीनाः सर्ववेदिनः ॥१४८।। 15 20 25 मन्दिरं० । 3. A ऽपि निजैर्जनैः । 4. A बुद्धिदर्पणः । 5. B 1.. Boगव्युति० । 2. B सर्वदेहिनः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy