SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ कुमारपालचरित्रसङ्ग्रहः ब्राह्मणा अपि लोभेन गृहीत्वा तानथार्भकान् । तदुच्छिष्टं पपुस्तकं वृद्धदाक्षिण्यबाधया ॥१२३।। अथ कट्यामुपादाय डिम्भांस्ते चलनाक्षमान् । प्रस्थिता निजदेशाय वृद्धेनानुगतास्ततः ॥१२४|| कियन्तमपि पन्थानं सह गत्वा गरीयसि । व्यावर्तमाने तेऽप्यूचुः स सन्देहस्तथैव नः ॥१२५।। वर्षीयानाह सन्देहापनोदायैव सर्वकम् । मया चेष्टितमेतावत् तन्न बुद्धं बुधैरहो ! ॥१२६।। श्वानगर्दभचाण्डालमद्यभाण्डरजस्वलाः । स्पृष्ट्वा देवलकं चैव सचेलं स्नानमाचरेत् ॥१२७।। न ज्ञानमेतद् ज्ञातं चेत् किं स्पृष्टां शुनका अमी । बहुमूल्यत्वलोभेनेत्युक्ते स पुनरभ्यधात् ॥१२८॥ वक्तुं भवत्सु विज्ञेषु युक्त्यैव खलु युज्यते । सर्वप्रसिद्धमेवेदं विश्वं ब्रुडति लोभतः ॥१२९।। इति ते तेन वृद्धेन छिन्नसन्देहमोदिनः । विदधुः पुस्तकारूढमर्थमेनं सविस्तरम् ॥१३०॥ ततो विज्ञापयामासुर्विज्ञाः सर्वं महीपतेः । तेनोचे सत्यमेवं चेन्न पुनर्निर्गमिष्यति ॥१३१॥ तदर्थे श्राविते शीर्षं निवृत्तं भज्जनात् पुनः । प्रसिद्ध्यै स्थापितं चैत्ये कुमार ! तदिदं शिरः ॥१३२॥ इत्यादिसारासारार्थविवेचनकुतूहली । योगीव भुवि बभ्राम कुमारो बहुवेषभृत् ॥१३३।। ६६५. देशे श्रीमल्लिनाथाख्ये गतः कोलम्बपत्तने । सोमनाथेन तत्रत्याधीश: स्वप्ने न्यगद्यत ॥१३४।। प्रातरत्रैष्यति स्वामी भविष्यो गूर्जेरावनेः । जटाधारी तदभ्यो दुर्लभा तादृशा नराः ॥१३५।। 15 20 25 1. B चालना० । 2. B ज्ञानमेतद् ज्ञानं । 3. B विज्ञपया० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy