________________
कुमारपालदेवचरितम् ।
अथाभाषिष्ट भूपालो विप्रान् ग्रासोपजीविनः । षाण्मास्यन्तर्निर्णयध्वं राज्यं वा त्यजतां मम ॥ ११० ॥
Jain Education International
मोहाहङ्कारमात्सर्यैः परायत्ततया ध्रुवम् । पक्वाऽपि नो मतिर्यूनां जायते दीर्घदर्शिनी ॥ १११॥ इति ते पण्डिता ज्ञात्वा स्थविरान् दर्शिनः पुनः । प्राहैश्चतुरो विप्रांस्तत् प्रष्टुं मरुमण्डले ॥ ११२ ॥ गतास्ते तां भुवं वर्षैः षष्ट्यातिक्रान्तसम्भवम् । वाहयन्तं हलं कैश्चिद् ददृशुः स्थविरं नरम् ॥११३॥ यावता प्रष्टुकामास्ते काका इत्यालपन्ति तम् । स तावज्जनको मेऽस्ति पुरस्तादिति तान् जगौ ॥११४॥ नूनं जीवन् पिताऽमुष्य भवितेति विमृश्य ते । विस्मिता वृद्धसम्प्राप्तिमुदिताः पुरतो ययुः ||११५|| स्कन्धन्यस्तोरणं वर्षानशीतिमतिगामुकम् । चारयन्तमजाः सर्वपलितं ददृशुर्नरम् ॥११६॥
तात ! त्वामनुगच्छामः संशयानाः परं हृदि । यावत् तमाहुः सोऽप्यूचे पुरस्तातोऽस्ति पृच्छ्यताम् ||११७|| शतादुपरि वर्त्तेत किमायुरिति वादिनः । प्राप्ताश्चित्रहृदः पर्णकुटीरकमयास्पदे ॥११८॥ मुञ्जरज्जुं सज्जयन्तं वेष्टितं श्वानडिम्भकैः । पितामह ! इति प्रोचुस्तं दृष्ट्वा परमायुषम् ॥ ११९॥ पप्रच्छुरथ तं सर्वोदन्तज्ञापनपूर्वकम् । 'एकेनब्रुडती' त्युक्त्वा शिरोनिर्गमकारणम् ॥१२०॥ विदेश इत्यगणितशूद्रदोषानमूनथ । आभीरो भोजयामास दक्षिणेत्यपदेशतः ॥१२१॥
ददौ च जातिवत्तेभ्यः श्वानडिम्भचतुष्टयम् । महामूल्यमिदं मार्गव्ययो वो येन शुद्ध्यति ॥१२२॥
२९
5
1. B पण्डितां । 2. B किश्चित् । 3. B यावत्पप्रष्टुः । 4. A वृद्धि० । 5. B स्कन्धे । 6. A वर्षामशीति० । 7. B वर्तेन । 8 A दक्षिणेत्युपदेशतः ।
For Private & Personal Use Only
10
15
20
25
www.jainelibrary.org