________________
5
10
15
20
25
२८
Jain Education International
कुमारपालचरित्रसङ्ग्रहः
तस्याः परिसरेऽनेकवैचित्र्यसुभगे भ्रमन् । कबन्धं कस्यचित् पुंसोर्वीक्षाञ्चक्रे विमस्तकम् ॥९७|| पुंरत्नमवधीत् कश्चिदेनं चौरो धनाशया । यद्वा विराधितः शत्रुः शिरोवर्जममुं व्यधात् ॥९८॥ विमृशन्निति तत्पार्श्वे कुमारो यावदागमत् । अन्योऽन्योक्तिमथाश्रौषीत् तत्र सङ्गतयोषिताम् ॥९९|| श्लाघ्यः केशकलापोऽस्य कटरे कर्णदीर्घता । चारु कूर्चं सताम्बूलं मुखं विरलदन्तकम् ॥१००॥ श्रुत्वेति विस्मितो राजसूनुः कथममूः स्त्रियः । कबन्धस्यास्य सत्केशकर्णादिव्यक्ति भाषिकाः ॥ १०१ ॥ तत्पृष्टास्ता अपि प्रोचुश्चित्रं चेत् श्रूयतामिह । पृष्टे वैणीसलं केशदैर्घ्यं व्यक्तीकरोति नः ॥१०२॥ स्कन्धौ किणाङ्कितौ लक्ष्मीकुरुतः कुण्डलश्रियम् । आनाभिगौरं वक्षोऽस्य श्मश्रुसङ्घनतां वदेत् ॥१०३॥ चूर्णेन चर्चितोऽ ऽङ्गुष्ठस्ताम्बूलं ज्ञापयत्यलम् । विरलत्वं च दन्तानां क्षतिरक्ता कनिष्ठिका ॥ १०४ ॥ ततः स मानी मन्वानो बहुरत्नां वसुन्धराम् । भ्राम्यन्नथो गतः क्वापि सरस्यमृतसागरे || १०५ ॥ स्नात्वा तत्र च तत्तीरे गते देवकुले क्वचित् । पूज्यमानं ददर्शोच्चैर्मस्तकं सविभूषणम् ॥१०६॥ पृष्टाः पुराविदः प्राहुः- ‘पुरेह प्रवरे नृपः । मण्डितं पद्मिनीखण्डैः सरोवरमखानयत् ॥ १०७॥ तत्र चाहर्निशं पद्मकोशान्निर्गत्य मस्तकम् । 'एकेनब्रुडती' त्युक्त्वा निमज्जन्तं स वीक्षते ॥ १०८॥ जाताश्चर्येण भूपेन पृष्टाः सर्वे विचक्षणाः । न च कैश्चन निर्णेतुं शशाक किमपि स्फुटम् ॥१०९॥
1. B ० वैचित्र्यसभये । 2. B विवक्तधीः । 3. A चौरं । 4. B 。वेणीयलं० । 5. B लक्ष्यी० । 6. B ख्यापयत्यलं । 7. B प्रवरो। 8. B कश्चित् ।
For Private & Personal Use Only
www.jainelibrary.org