SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ कुमारपालदेवचरितम् । मैनीषितादप्यधिका कार्यसिद्धिर्भविष्यति । जिनधर्मप्रभावात्तु विशेषप्रतिभा तव ॥८४।। सन्तोष्य शकुनाभिज्ञं कुमारो मधुरान्तरः । गत्वोज्जयिन्यामेकान्ते सञ्जग्मे स्वजनैः सह ।।८५।। भीत्या श्रीसिद्धराजस्य क्वाप्यवस्थातुमक्षमः । सर्वार्थसिद्धियोगीन्द्रं गत्वा कोलापुरेभजत् ।।८६।। सद्भावभक्तितुष्टेन योगिनाऽभाणि राजसूः । मत्पार्श्वे सिद्धमन्त्रौ स्तः स्वतन्त्रौ निजकर्मसु ॥८७।। एको राज्यप्रदः किन्तु साधने सदुपद्रवः । द्वितीयो धनदाताऽस्ति स्वस्तिकृद् भाग्यशालिनाम् ॥८८॥ आदाय राज्यदं मन्त्रं कुमारः सत्त्वशेवधिः । निर्मिमे निर्मलस्वान्तः पूर्वसेवां यथोचिताम् ॥८९।। ततः कृष्णचतुर्दश्यां बलिव्याकुलपाणिकः । शबं स्वयमुपादाय गतः पितृवनान्तरे ॥९०।। वह्निकुण्डमथ न्यस्य परासोर्हदि यावता । होमं ददाति तस्यैवोपविश्य च कटीतटे ॥९१।। क्षेत्रपालः करालास्यः प्रत्यक्षस्तावताऽवदत् । किमारब्धमनात्मज्ञ ! मामनभ्यर्च्य रे त्वया ? ॥९२।। श्रुत्वापीत्थं स नि:क्षोभः स्वविधेयमपूपुरत् । प्रत्यक्षाऽथ महालक्ष्मीस्तमुवाच कृतादरम् ॥९३॥ साम्राज्यं गूर्जरात्रायाः पञ्चभिर्वत्सरैस्तव । भविष्यतीत्यथादिश्य महालक्ष्मीस्तिरोदधे ॥९४।। ततो दवीयसी राज्यप्राप्ति ज्ञात्वा नृपाङ्गभूः । जातदेशान्तरालोककुतूहलविविक्तधीः ॥९५।। ६६४. समग्रपुरनिर्याससम्भारैरिव निर्मिताम् । कल्याणकटके देशे ययौ कान्ती महापुरीम् ।।९६।। 1. A राजप्रदः । 2. B निर्ममे । 3. A हृद्यावनौ । 4. B रिह । ★ मनीषित-मनीषा (बुद्धिः) सञ्जाताऽस्य तत् मनीषितं, तस्मात् मनीषितात्-अभिलषितादित्यर्थः ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy