________________
कुमारपालचरित्रसङ्ग्रहः
10
मूर्छित्वा पुनरुत्थाय भ्रान्त्वा च परितो दिशः । मूषकः पञ्चतां प्राप बलीयान् मोहविभ्रमः ॥७१॥ भ्रमन्नुर्वीमविश्रान्तं भीतभीतो नपाङ्गजः । त्रिदिनक्षुधितः क्वापि प्रान्तरे प्रातरेकदा ॥७२।। मुत्कलाप्य वधूं किञ्चिदिभ्यपुत्रं निजे गृहे । गच्छन्तं मुक्तधौरेयं भोजनासीनमैक्षत ॥७३।। - युग्मम् । जग्मुषे तत्र दीनाय कुमाराय नवोढया । दत्तं भर्तुरपह्नत्य करम्बं करुणाजुषा |७४।। तृप्तस्ततो गतः क्वापि ग्रामेऽत्यर्थं बुभुक्षितः । कडुयानामधेयस्य वणिजः प्रापदापणे ॥७५।। विशोपकैकचणकान् गृहीत्वा बुभुजे स्वयम् । मूल्यं मार्गयते तस्मै खड्गमड्डाणकं ददौ ॥७६।। सदाचारं राजपुत्रं विमृश्य वणिगूचिवान् । आदत्स्व करवालं स्वं माङ्गल्ये चणकास्तव ।।७७।। तामेवोपकृति तस्य मन्वानोऽवसरोचिताम् । जटीभूय स कन्नाली-सिद्धपुर्यामथागमत् ।।७८।। सविताऽपि दिने क्षीणे पराश्रयमपेक्षते । इति सिद्धेश्वरार्चायां नियुक्तस्तत्र तस्थिवान् ॥७९॥ एकदा मरुदेशीयं तत्र शाकुनिकं जगौ । कदाचित् पदवीप्राप्तिर्ममापि भविता किमु ||८०।। प्रातर्गतौ मिलित्वोभौ शकुनान्वेषणाय तौ । दुर्गा ददृशतुर्जेनचैत्योर्ध्वं शुभचेष्टिताम् ॥८१॥ श्यामा स्वरद्वयं चक्रे चैत्यस्यामलसारके । ऊर्ध्वं चटन्ती कलशे स्वरत्रयमुदाहरत् ॥८२॥ शान्तचेष्टा पुनर्दण्डे चक्रे स्वरचतुष्टयम् । शकुनज्ञोऽपि दृष्ट्वेति मुदितस्तमवोचत ॥८३।।
15
20
25
__1. A भ्राम्यं च । 2. B नृपात्मजः । 3. B प्रान्तरे कदा। 4. B जग्मषे तव दीठाव । 5. B कुडुआ० । 6. B ०मुड्डाणकं । 7. B नियुक्त० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org