________________
कुमारपालदेवचरितम्।
ज्ञानेन लक्षणैश्चापि विज्ञाय गुरवोऽपि हि । अनुगृह्याशिषं राज्यं शशंसुमितवत्सरैः ।।५८।। अथोदयननामा स्वोपासको मन्त्रिसत्तमः । तदाऽभिवन्दितुं सूरीन् समियाय सुतैः सह ॥५९।। ऊचिरे गुरवो मन्त्रिन् ! कालाद् विक्रमभूभुजः । वर्षेनवनवत्यग्रैरेकादशशतैर्गतैः ॥६०॥ मार्गशीर्षस्य कृष्णायां चतुर्थ्यां मेषगे विधौ । मीने लग्ने कुमारस्य राज्यप्राप्तिर्भविष्यति ॥६१।। सार्वभौमो ह्यसामान्यो भविता परमार्हतः । तद् ध्रुवं मान्य एवायं समयः खलु दुर्लभः ॥६२।। यथास्वैरं कुमारोऽपि तिष्ठन्नुदयनालये । प्रेषितान् सिद्धराजेन तत्राश्रौषीच्च घातकान् ।।६३।। ततो निर्गत्य पाथेयरहितो वटपद्रके । ग्रामे क्वचिद्देवकुलच्छायायां समुपाविशत् ॥६४॥ स्वबिलान्मूषकस्तत्र द्रम्ममेकमुपाहरत् । तं मुक्त्वा बहिरन्यं च प्रविश्य पुनरानयत् ॥६५।। क्रमेण जाता द्वात्रिंशत् कृत्वैकं पुनरानने । बिलान्तः प्रविवेशाथ कुमारोऽपि व्यचिन्तयत् ॥६६।। यथैष बहिरानिन्ये तथाऽन्तरपि नेष्यति । पशूनां चेष्टितं यस्मात् कार्याकार्यबहिर्मुखम् ॥६७॥ पाथेयवर्जितोऽहं तद् द्रम्मान् मुञ्चे वृथा किमु । यदुक्तं पुरुषार्थेषु स्वार्थभ्रंशो हि मूर्खता ॥६८।। इत्यादत्ते कुमारस्तान् यावत्तावत् स मूषकः । सत्वरं बहिरायातो नेक्षते द्रम्मपुञ्जिकाम् ॥६९।। ततो दिङ्मूढवत् तत्र धत्तूरित इवाभ्रमत् । घातं घातं भुवः पृष्ठं खरवत् स लुलोठ च ॥७०।।
1. B मीनलग्ने । 2. A यद्येष । 3. B कार्यं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org