SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ २४ कुमारपालचरित्रसग्रहः अल्पनिद्रः कुमारोऽपि तत् तथा वीक्ष्य चक्लृपे । अहो ! विप्रस्य सर्वेष्टा भोजनस्पृहयालुता ॥४६॥ विप्रोऽपि भोजने जीर्णे कुमारं प्राह भुज्यताम् । किमेकाकी पुरो भोक्षीरिति पृष्टः पुनर्जगौ ॥४७।। उक्तमिभ्यस्त्रिया मेऽद्य भिक्षां कर्तुमुपेयुषः । स्थितमस्थगितद्वारं भक्ष्यभाण्डमिदं निशि ॥४८॥ ममात्रादूषणं भद्र ! गृह्यतां यदि वाञ्छसि । भेदं स्याद्दूषितं तेन प्रथमं भुक्तवान् स्वयम् ॥४९।। यत: 10 15 'यस्याधारण जीवन्ति शतानि खलु देहिनाम् । स एव शतनाशेऽपि रक्षणीयः प्रयत्नतः ॥५०॥' अतः परीक्षितमिदं युक्तं तथैव हि । अभ्यनन्द(त्) कुमारोऽपि मित्रं प्राणप्रियो भवान् ॥५१।। ग्राममेनं तवैवाहं दास्ये राज्ये सति ध्रुवम् ।। ततो डाङ्गुरिकग्रामे सम्प्राप्तः सुहृदा सह ॥५२।। तत्र लक्ष्मिश्रिया साध्व्या कृपयाऽभोजि मोदकैः । ग्रामेऽगात् पेटलापद्रे तयैवार्पितशम्बलः ॥५३॥ तत्रेश्वराभिधानस्य वणिजो वाटिकान्तरे । प्रविष्टः पक्वमाकन्दफलवृन्दजिघृक्षया ॥५४|| दृष्ट्वा च वणिगुद्दाल्य पटीं प्रसभमगृहीत् । न लेभे नि:कृपात् तस्मात् पटीं चाटुशतैरपि ॥५५।। अथाक्रान्तो विषादेन निषादेनेव सत्रपः । कुमार: स्तम्भतीर्थेऽगात् पैटी प्रावृत्य बोसरेः ॥५६॥ ६६३. तत्र श्रीपूर्णतल्लाख्यगच्छोदधिसितद्युतीन् । कुमारपालः श्रीहेमचन्द्रसूरीनवन्दत ॥५७।। 20 25 1. B पृष्टं । 2. B वेटलापद्रे । 3. B दृष्ट्वाथ । 4. B पटी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy