________________
5
10
कुमारपालदेवचरितम् ।
इतस्तत: परिभ्रम्य नृपसैन्यं न्यवर्तत । पुण्येषु जागरूकेषु जात्यन्धाः खलु शत्रवः ॥३३॥ कुमारोऽपि विनिर्गत्य दूरीकृत्योत्कटा जटाः । सञ्जग्मे स्वजनैः सार्धं गत्वा ग्रामं दधिस्थलीम् ॥३४॥ भूयोऽपि पत्तनात् त्रस्तो भाण्डान्तर्विनिवेशनात् । सज्जनेन कुलालेन रक्षितो योगिरूपभाक् ॥३५।। तथैव बटुरूपेण गतं ग्रामे यशोधने । दधिभाण्डेषु रक्षत्वा बोसरिमित्रतामगात् ॥३६।। सार्द्ध कुलाल-विप्राभ्यां सुहृद्भयामेकदा पुनः । समगस्त कुटुम्बस्य राज्योपायचिकीरथ ॥३७।। सज्जनेन कुलालेन विप्रबोसरिणा च सः । सार्धं मन्त्रयते यावत् देशान्तरविधित्सया ॥३८॥ तावत् तन्मन्त्रणोद्विग्नौ पितरावूचतुस्तराम् । किमनुत्पन्नपुत्रस्य नामवज्जागरौ मुधा ॥३९।। यद्वा राज्ये कुमारस्य बोसरे ! लाटनीवृतम् । लप्स्यसे सज्जन ! त्वं च चित्रकूटस्य पट्टिकाम् ॥४०॥ श्रुत्वेति शकुनग्रन्थि बद्ध्वा च नृपनन्दनः । साधू बोसरिणाऽचालीद् देशान्तरदिदृक्षया ॥४१॥ स्थितौ करौटकग्रामे प्रथमेऽह्नि बुभुक्षितौ । आछउल्यां पुनः प्राप्तौ यामयुग्मे परेद्यविः ॥४२॥ कुमारपालः प्राह स्म भोजनं कथमद्य भोः ! । अस्ति मे शाश्वती माता भिक्षेत्याख्याय बोसरिः ॥४३॥ प्रविश्य ग्राममादाय भिक्षां प्राप्तस्तदन्तिके । करम्बभाण्डं निहृत्य भिक्षाशुण्डीमदर्शयत् ॥४४॥ भोजनान्ते क्षणं सुप्तो बोसरिमित्रवत्सलः । करम्बं बुभुजे यावदेकाकी पूर्वमुत्थितः ॥४५।।
15
25
1. A बहुरूपेण । 2. A ०मित्राभ्यां । 3. A समागस्त । 4. A ग्रामयुग्मे । 5. B .त्याख्यायि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org