________________
10
कुमारपालचरित्रसङ्ग्रहः रहस्यं मन्त्रिणोऽवोचत् सोऽप्याख्यद् देव ! युज्यते । विजेतुं मालवान् यूयं यदा पूर्वमुपस्थिताः ॥२०॥ रुद्ध बुद्धिल्लिकाघट्टे यशोवर्ममहीभृता । राज्यं न्यस्य त्रिभुवनपालेऽहमपि तत्क्षणात् ।।२१।। युष्माकमाज्ञया युष्मत्समीपमुपतस्थिवान् । वशीकृतमिदं राज्यं तेनास्मिन्नन्तरे तव ।।२२।। त्वय्यायातेऽपि निर्जित्य शत्रून् स किल भाषते । सिद्धराजं निहत्याहं दास्ये राज्यं स्वसूनवे ॥२३।। विशिष्येति वचः क्रुद्धो नृपस्त्रिभुवनाभिधम् । घातकैर्घातयामास शेषेष्वपि जिघांसुधीः ।।२४।। तत: कुमारपालोऽपि प्रेष्यावन्त्यां कुटुम्बकम् । भार्यां मुक्त्वा दधिस्थल्यां स्वयं पत्तनमभ्यगात् ॥२५॥ स्थितं(त:?) जटाधरीभूय मठे त्रिपुरुषाभिधे । तं ज्ञात्वा सिद्धभूपोऽपि क्षयाहे कर्णभूपतेः ।।२६।। द्वात्रिंशता जटाभृद्भिः सार्धं गेहे निमन्त्र्य च । प्रत्येकं क्षालयामास तेषां पादौ नृपः स्वयम् ॥२७।। विलोक्य राजचिह्नानि कुमारपालपादयोः । गूढाकारेङ्गितो राजा वरभोज्यैरभोजयत् ।।२८।। वधोपायचिकीर्द्धातोत्तरीयाहरणच्छलात् । यावत् कोशगृहेऽगच्छत् कुमारोऽपि हि तावता ।।२९।। आदाय कुण्डिकां पाणौ वान्तिव्याजेन तत्क्षणम् । निर्गत्य सौधतोऽचालीद् ग्राम प्रति दधिस्थलीम् ॥३०॥ तमदृष्ट्वा नरेन्द्रोऽपि प्रजिघाय चमूं रयात् । तामासन्नां विभाव्योचे हालिकं रक्ष मामिति ॥३१॥ आच्छाद्य कण्टकैः सोऽपि ररक्ष क्षणमात्रतः । गुणाय खलु कल्पन्ते कण्टका अपि कर्हिचित् ॥३२॥
15
20
25
1. B राज्यं दास्ये । 2. B ख्ययाहे । 3. A ०काराङ्गितो । 4. B क्षणमाश्रवः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org