________________
कुमारपालदेवचरितम्।
वशीकृत्य चतुःसिन्धुसमर्यादां वसुन्धराम् । सिद्धबर्बरकः सोऽभूत् सिद्धराज इति श्रुतः ॥८।। सिद्धराजः श्रीहेमसूरीनभ्यर्थ्य सादरम् । श्रीसिद्धहेमचन्द्राख्यं शब्दशास्त्रमचीकरत् ॥९।।
इतश्च
10
15
88२. देवप्रसाद इत्यासीत् क्षेमराजस्य नन्दनः ।
तत्पुत्रश्च त्रिभुवनपालदेवः प्रजाहितः ॥१०॥ त्रयोऽभूवन् सुतास्तस्य प्रशस्यगुणसम्पदः । आद्यः कुमारपालोऽभूत् सार्वभौमगुणालयः ।।११।। महीपाल-कीर्तिपालौ जातौ तस्यानुजावुभौ । पदक्रमाविव स्पष्टं वेदवाक्यस्य संहतौ ॥१२॥ भार्या भोपलदेवीति भगिनी प्रेमलदेव्यभूत् । श्रीकृष्णभटदेवेन योदूढा मोडवासके ॥१३॥ अन्यदा सिद्धराजेन्द्रः पट्टे को भविता मम । दैवज्ञमिति पप्रच्छ सोऽपि ज्ञात्वेदमब्रवीत् ॥१४॥ ग्रामे दधिस्थलीनाम्नि यस्ते भ्रातृव्यनन्दनः । समृद्धमपि ते राज्यं तदायत्तं भविष्यति ।।१५।। तं हत्वाऽपि करिष्यामि निजराज्यं स्वपुत्रसात् । इति श्रीसिद्धभूपालः पुत्रप्राप्तिकुतूहली ॥१६।। पादचारेण कापोतीमुद्वहन् स्कन्धयोर्द्वयोः । प्रभासतीर्थे सद्भक्त्या सोमनाथमयाचयत् ॥१७॥ उक्तं सोमेश्वरेणापि पर्याप्तं पुत्रकाम्यया ।। सृष्टः कुमारपालोऽस्ति मया राज्यधरः पुरा ॥१८॥ जीवत्यमुष्मिन्नो पुत्रसम्पत्तिर्भविता मम । चिन्तयन्निति भूपालो विषण्णः प्राप पत्तनम् ॥१९॥
20
25
1. B देवप्रासाद० । 2. B ०पाल: देवः । 3. A भावलदेवी० । 4. B मोढवासके। 5. A ०मयात्रयत् । 6. B भवता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.