SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 5 10 15 श्रीसोमतिलकसूरिविरचितं कुमारपालदेवचरितम् । ॥ नमः श्रीवीतरागाय ॥ अत्र श्रीकुमारपालदेवचरित्रं व्याक्रियते । - Jain Education International प्रपालयन्तोऽपि कलौ धरित्रीं स्वमज्जका एव पैरे नरेन्द्राः । कुमारपालः परमार्हतस्तु लोकं तथा स्वं च समुद्दधार ॥१॥ तथा हि ६१. स्वस्ति श्रीगौर्जरो देशो न लेशो यत्र पाप्मनाम् । पुरं सुरपुरप्रायं तत्राणहिल्लपत्तनम् ||२|| बभूव भूपतिर्भीमदेवो भीमपराक्रमः । आतपत्रायितं मूर्ध्नि यद्यशश्चन्द्रमण्डलम् ||३|| विमातृजौ क्षेमराज - कर्णदेवौ तदङ्गौ । मिथः प्रीतिपरीणद्धौ दस्राविव बभूवतुः ॥४॥ भीमे दिवङ्गते क्षेमराजो राज्यक्षमो [ पि] हि । पित्रादेशात् प्रीतितश्च कर्णं राज्ये न्यवीविशत् ॥५॥ राज्यं पालयतस्तस्य नीत्या कर्णमहीपतेः । जातोऽङ्गजो जयसिंहदेवनामा विविक्तघीः ||६|| श्रीकर्णे गते दैवाद् बालकोऽपि स एव हि । अभ्यषिच्यत सामन्तैर्बलीयान् पुण्यवैभवः ||७|| 1. B ॐ नमो वीतरागाय । 2. B अत्र च । 3. B परै । 4. B अस्ति । 5. A अभिषिच्यत् । For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy