________________
विवेकचूडामणिः. देहेन्द्रियासुमनआदि समस्तदृश्य
ज्ञानाग्निदग्धमुपयाति परात्मभावम् ॥ ५६५ ॥ विलक्षणं यथा ध्वान्तं लीयते भानुतेजसि । तथैव सकलं दृश्यं ब्रह्मणि प्रविलीयते ॥ ५६६ ॥ घटे नष्टे यथा व्योम व्योमैव भवति स्फुटम् । तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित् स्वयम् ॥ ५६७ ॥ क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले । संयुक्तमेकतां याति तथाऽऽत्मन्यात्मविन्मुनिः ॥ ५६८ ॥ एवं विदेहकैवल्यं सन्मात्रत्वमखाण्डितम् । ब्रह्मभावं प्रपद्यैष यति वर्तते पुनः ॥ ५६९ ॥ सदात्मैकत्वविज्ञानदग्धाविद्यादिवर्मणः । अमुष्य ब्रह्मभूतत्वात् ब्रह्मणः कुत उद्भवः ? ॥ ५७० ॥ मायाक्लप्तौ वन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः । यथा रजौ निष्क्रियायां साभासविनिर्गमौ ॥ ५७१ ॥ आवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे ।। नावृतिर्ब्रह्मणः काचित् अन्याभावादनावृतम् ।। यद्यस्त्यद्वैतहानिः स्यात् द्वैतं नो सहते श्रुतिः ॥ ५७२ ॥ बन्धश्च मोक्षश्च मूषैव मूढाः बुद्धर्गुणं वस्तुनि कल्पयन्ति । हगावृति भेधकृतां यथा रवौ यतोऽद्वयासङ्गचिदेकमक्षरम्॥५७३ अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि । बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः ॥ ५७४ ॥ अतस्तौ मायया क्लृप्तौ बन्धमोक्षौ न चात्मनि । निष्कले निष्क्रिये शान्ते निरवये निरञ्जने । अद्वितीये परे तत्वे व्योमवत् कल्पना कुतः ? ॥ ५७५ ॥