SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ८२ विवेकचूडामणिः जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः । उपाधिनाशाद् ब्रह्मैव सत् ब्रह्माप्येति निर्द्वयम् ॥ ५५६ ॥ शैलूषो वेषसद्भावाभावयोश्च यथा पुमान् । तथैव ब्रह्मविच्छेष्ठः सदा ब्रह्मैव नापरः ॥ ५५७ ॥ यत्र कापि विशीर्णे सत् पर्णमिव तरोर्वपुः पतनात् । ब्रह्मीभूतस्य यतेः प्रागेव तश्चिदग्निना दग्धम् ॥ ५५८ ॥ सदात्मनि ब्रह्मणि तिष्ठतो मुनेः पूर्णायानन्दमयात्मना सदा । न देशकालाद्यचितप्रतीक्षा त्वङ्मांस विपिण्डविसर्जनाय ॥ ५५९ ॥ देहस्य मोक्षो नो मोक्षो न दण्डस्य कमण्डलोः । अविद्याहृदयग्रन्थिमोक्षो मोक्षो यतस्ततः ॥ ५६० ॥ कुल्यायामथ नद्यां वा शिवक्षेत्रेऽपि चत्वरे । पर्ण पतति चेत् तेन तरोः किं नु शुभाशुभम् ? ॥ ५६९ ॥ पत्रस्य पुष्पस्य फलस्य नाशवत् देहेन्द्रियप्राणधियां विनाशः | नैवात्मनः स्वस्य सदात्मकस्यानन्दाकृतेर्वृक्षवदास्त एषः ॥ ५६२ ॥ 66 प्रज्ञानघन "" इत्यात्मलक्षणं सत्यसूचकम् । अनूद्योपाधिकस्यैव कथयन्ति विनाशनम् ॥ ५६३ ॥ "अविनाशी वा अरेऽयमात्मे "" ति श्रुतिरात्मनः । प्रव्रवीत्यविनाशित्वं विनश्यत्सु विकारिषु ॥ ५६४ ॥ "1 पाषाणवृक्षतृणधान्यकटाम्वराद्याः दग्धा भवन्ति हि देव यथा तथैव । बृह. ६-५-१३, १४,
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy