________________
विवेकचूडामाणः. अपि कुर्वन्नकुर्वाणः चाभोक्ता फलभोग्यपि । शरीर्यप्यशरीर्येषः परिच्छिन्नोऽपि सर्वगः ॥ ५४६ ॥ अशरीरं सदा सन्तं इमं ब्रह्मविदं क्वचित् । प्रियाप्रिये, न स्पृशतः तथैव च शुभाशुभे ॥ ५४७ ॥ स्थूलादिसम्बन्धवतोऽभिमानिनः ।
सुखं च दुःखं च शुभाशुभे च । विध्वस्तबन्धस्य सदात्मनो मुनेः ।
कुतः शुभं वाऽप्यशुभं फलं वा? ॥ ५४८ ॥ तमसा ग्रस्तवद्भानात् अग्रस्तोऽपि रविर्जनैः। ग्रस्त इत्युच्यते भ्रान्त्या ह्यज्ञात्वा वस्तुलक्षणम् ॥ ५४९ ॥ तद्वंदेहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् । • पश्यन्ति देहिवन्मूढाः शरीराभासदर्शनात् ॥ ५५० ॥ .
अहिनिर्बयनीवायं मुक्तदेहस्तु तिष्ठति । इतस्ततश्चाल्यमानो यत्किञ्चित् प्राणवायुना ॥ ५५१ ॥ स्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् । देवेन नीयते देहो यथाकालोपभुक्तिषु ॥ ५५२ ॥ प्रारब्धकर्मपरिकल्पितवासनाभिः
संसारिवञ्चरति भुक्तिषु मुक्तदेहः । सिद्धः स्वयं वसति साक्षिवत्र तूष्णीं
चक्रस्य मूलमिव कल्पविकल्पशून्यः ॥ ५५३ ॥ . नैवेन्द्रियाणि विषयेषु नियुक्त एषः
नैवापयुक्त उपदर्शनलक्षणस्थः । नैव क्रियाफलमपीषदपेक्षते सः ।
स्वानन्दसान्द्ररसपानसुमत्तचित्तः ॥ ५५४ ॥ लक्ष्यालक्ष्यगतिं त्यक्त्वा यस्तिष्ठेत् केवलात्मना । शिव एव स्वयं साक्षात् अयं ब्रह्मविदुत्तमः ॥ ५५५ ॥
iv-11