________________
विवेकचूडामणिः.
स्वस्मिन् सदा क्रीडति नन्दति स्वयं निरन्तरानन्दरसेन तृप्तः ॥ ५३८ ॥
क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनि । तथैव विद्वान् रमते निर्ममो निरहं सुखी ॥ ५३९ ॥ चिन्ताशून्य मदेन्य भैक्षमशनं पानं सरिद्वारिंषु स्वातन्त्र्येण निरङ्कुशा स्थितिरभीनिंद्रा श्मशाने वने । वस्त्रं क्षालनशोषणादिरहितं दिग्वाऽस्तु शय्या मही सञ्चारी निगमान्तवीधिषु विदां क्रीडा परे ब्रह्मणि ॥ ५४० ॥
विमानमालम्ब्य शरीरमेतत्
भुनक्त्यशेषान् विषयानुपस्थितान् ।
परेच्छया बालवदात्मवेत्ता
योऽव्यक्तलिङ्गोऽननुषक्त बाह्यः ॥ ५४१ ॥
दिगम्बरो वाऽपि च साम्वरो वा
वगम्बरो वाऽपि चिदम्बरस्थः उन्मत्तवद् वाऽपि च बालवद् वा
पिशाचवद् वाऽपि चरत्यवन्याम् ॥ ६४२ ॥
कामान्नी कामरूपी सन् चरत्येकचरो मुनिः । स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना स्थितः ॥ ५४३ ॥ कचिन्मूढो विद्वान् क्वचिदपि महाराजविभवः
क्वचिद्भान्तः सौम्यः क्वचिदजगराचारकलितः । क्वचित् पानीभूतः क्वचिदवमतः काप्यविदितः
चरत्येवं प्राज्ञः सततपरमानन्दसुखितः ॥ ५४४ ॥ निर्धनोऽपि सदा तुष्टोऽप्यसहायो महाबलः । नित्यतृप्तोऽप्यभुञ्जानोऽप्यसमः समदर्शनः ॥ ५४५ ॥