SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः. नास्ति निर्वासनान्मौनात् परं सुखकृदुत्तमम् । विज्ञातात्मस्वरूपस्य स्वानन्दरसपायिनः ॥ ५२९ ॥ गच्छंस्तिष्ठन्नुपविशन् शयानो वाऽन्यथाऽपि वा । यथेच्छया वसेद्विद्वान् आत्मारामः सदा मुनिः ॥ ५३० ॥ न देशकालासनदिग्यमादि लक्ष्याद्यपेक्षा प्रतिवद्धवृत्तेः । संसिद्धतत्त्वस्य महात्मनोऽस्ति स्ववेदने का नियमाद्यवस्था ? ॥ ५३१ ॥ घटोऽयमिति विज्ञातुं नियमः कोऽन्वपेक्ष्यते ? । विना प्रमाणसुष्टुत्वं यस्मिन् सति पदार्थधीः ॥ ५३२ ॥ अयमात्मा नित्यसिद्धः प्रमाणे सति भासते । नं देशं नापि वा कालं न शुद्धि वाऽन्यपेक्षते ॥ ५३३ ॥ देवदत्तोऽहमित्येतद्विज्ञानं निरपेक्षकम् । तद्वद् ब्रह्मविदोऽप्यस्य ब्रह्माहमिति वेदनम् ॥ ५३४ ॥ भानुनेव जगत् सर्व भासते यस्य तेजसा । अनात्मकमसत्तच्छं किं नु तस्यावभासकम् ? ॥ ५३५ ॥ वेदशास्त्रपुराणानि भूतानि सकलान्यपि । येनार्थवन्ति तं किं तु विज्ञातारं प्रकाशयेत् ? ॥ ५३६ ॥ . एष स्वयंज्योतिरनन्तशक्तिः आत्माऽप्रमेयः सकलानुभूतिः । यमेव विज्ञाय विमुक्तबन्धो जयत्ययं ब्रह्मविदुत्तमोत्तमः ॥ ५३७ ॥ न खिद्यते नो विषयैः प्रमोदते न सजते नापि विरज्यते च ।
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy