________________
७८
विवेकचूडामणिः प्रमुदितहृदयः स देशिकेन्द्रः पुनरिदमाह वचः परं महात्मा ॥ ५२२ ॥
॥ गु रो र नु शा स न म् ॥ ब्रह्मप्रत्ययसन्ततिर्जगदतो ब्रह्मैव सत् सर्वतः पश्याध्यात्मदृशा प्रशान्तमनसा सर्वास्ववस्थास्वपि । रूपादन्यदवेक्षितुं किमाभतश्चक्षुष्मतां विद्यते तद्वद् ब्रह्मविदः सतः किमपरं बुद्धर्विहारास्पदम् ॥ ५२३॥ कस्तां परानन्दरसानुभूति
उत्सृज्य शून्येषु रमेत विद्वान् ? । चन्द्रे महाह्लादिनि दीप्यमाने
चित्रेन्दुमालोकयितुं क इच्छेत् ? ॥ ५२४ ॥ असत्पदार्थानुभवेन किञ्चित्
न हस्ति तृप्तिनं च दुःखहानिः । तदद्वयानन्दरसानुभूत्या
तृप्तः सुखं तिष्ठ सदात्मनिष्ठया ॥ ५२५ ॥ स्वमेव सर्वतः पश्यन् मन्यमानः स्वमद्वयम् । स्वानन्दमनुभुञ्जानः कालं नय महामते ! ॥ ५२६ ॥ अखण्डबोधात्मनि निर्विकल्पे ।
विकल्पनं व्योनि पुरः प्रकल्पनम् । तदद्वयानन्दमयात्मना सदा
शान्ति परामेत्य भजस्व मौनम् ॥ ५२७ ॥ तूष्णमिवस्था परमोपशान्तिः
बूढेरसत्कल्पविकल्पहेतोः । ब्रह्मात्मना ब्रह्मविदो महात्मनो
यत्राद्वयानन्दसुखं निरन्तरम् ॥ ५२८ ॥