SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः. सर्वाधारं सर्ववस्तुप्रकाशं __ सर्वाकारं सर्वगं सर्वशून्यम् । नित्यं शुद्धं निश्चलं निर्विकल्पं ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ ५१५ ॥ यस्मिन्नस्ताशेषमायाविशेष प्रत्यग्रूपं प्रत्ययागम्यमानम् । सत्यज्ञानानन्दमानन्दरूपं ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ ५१६ ॥ निष्क्रियोऽस्म्यविकारोऽस्मि निष्कलोऽस्मि निराकृतिः । निर्विलल्पोऽस्मि नित्योऽस्मि निरालम्बोऽस्मि निर्द्वयः ॥ ५१७॥ सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः । केवलाखण्डबोधोऽहं आनन्दोऽहं निरन्तरः ॥ ५१८ ॥ - स्वाराज्यसाम्राज्यविभूतिरेषा भवत्कृपाश्रीमहितप्रसादात् । प्राप्ता मया श्रीगुरवे महात्मने नमो नमस्तेऽस्तु पुनर्नमोऽस्तु ॥ ५१९ ॥ महास्वप्ने माया'कृतजनिजरामृत्युगहने भ्रमन्तं क्लिश्यन्तं बहुलतरतापैरनुकलम् । अहङ्कारव्याघ्रव्यथितमिममत्यन्तकृपया प्रवोद्धय प्रस्वापात् परमवितवान्मामसि गुरो! ॥ ५२० ॥ ' नमस्तस्मै सदेकस्मै नमश्चिन्महसे मुहुः । यदेतद्विश्वरूपेण राजते गुरुराज ते ॥ ५२१ ॥ इति नतमवलोक्य शिष्यवर्य समधिगतात्मसुखं प्रबुद्धतत्त्वम् । स्वपन्तं मायाभिः. रनुदिनम.
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy