________________
विवेकचूडामणिः. रवेर्यथा कर्मणि साक्षिभावो
वर्यथा वाऽयसि दाहकत्वम् । रजोर्यथाऽऽरोपितवस्तुसङ्गः
तथैव कूटस्थचिदात्मनो मे ॥ ५०८ ॥ कर्ताऽपि वा कारयिताऽपि नाहं
भोक्ताऽपि वा भोजयिताऽपि नाहम् । द्रष्टाऽपि वा दर्शयिताऽपि नाहं
सोऽहं स्वयंज्योतिरनाहगात्मा ॥ ५०९ ॥ चलत्युपाघौ प्रतिविम्बलौल्यं __औपाधिक मूढधियो नयन्ति ।। स्वबिम्बभूतं रविवद्विनिष्क्रिय
कर्ताऽस्मि भोक्ताऽस्मि हतोऽस्मि हेति ॥५१०॥ जले वाऽपि स्थले वाऽपि लुठत्वेष जडात्मकः । नाहं विलिप्ये तद्धमैः घटधर्मेनभो यथा ॥ ५११ ॥ . .
कर्तृत्वभोक्तृत्वखलत्वमत्तता___ जडत्वबद्धत्वविमुक्तताऽऽदयः । बुद्धर्विकल्पा न तु सन्ति वस्तुतः
स्वस्मिन् परे ब्रह्मणि केवलेऽद्वये ॥ ५१२ ॥ सन्तुं विकाराः प्रकृतेर्दशधा शतधा सहस्रधा वाऽपि । तैः किं मेऽसङ्गचितेः न ह्यम्बुदडम्बरोऽम्बरं स्पृशति ॥५१३॥ अव्यक्तादि स्थूलपर्यन्तमेतत्
विश्वं यत्राभासमात्रं प्रतीतम् । व्योमप्रख्यं सूक्ष्ममाद्यन्तहीनं ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ ५१४ ॥
दाहनियामकत्वं.