________________
विवेकचूडामणिः.
आकाशवत् कल्पविदूरगोऽहं आदित्यवद्भास्यविलक्षणोऽहम् ।
अहावन्नित्यविनिश्चलोsहं
अम्भोधिवत् पारविवर्जितोऽहम् ॥ ५०१ ॥
न से देहेन सम्बन्धो मेघेनेव विहायसः । अतः कुतो मे तद्धर्माः जाग्रत्स्वप्नसुषुप्तयः ॥ ५०२ ॥ उपाधिरायाति स एव गच्छति
स एव कर्माणि करोति भुङ्क्ते ।
स एव जीवन्' म्रियते सदाऽहं
कुलाद्रिवनिश्चल एव संस्थितः ॥ ५०३ ॥
न मे प्रवृत्तिर्न च मे निवृत्तिः संदेकरूपस्य निरंशकस्य । ऐकात्मको यो निबिडो निरन्तरो
व्योमेव पूर्णः स कथं नु चेष्टते ? ॥ ५०४ ॥
पुण्यानि पापानि निरिन्द्रियस्य
निश्चेतसो निर्विकृतेर्निराकृतेः ।
कुतो ममाखण्डसुखानुभूतेः ?
છેક
ब्रूते ह्य" नन्वागत " * मित्यपि श्रुतिः ॥ ५०५ ॥
छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुष्ठु वा । न स्पृशत्येव यत् किञ्चित् पुरुषं तद्विलक्षणम् ॥ ५०६ ॥
न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति विलक्षणम् । अविकारमुदासीनं गृहधर्माः प्रदीपवत् ॥ ५०७ ॥
[ देहेन्द्रियमनोधर्माः नैवात्मानं स्पृशन्त्यहो ]
जीर्यन्.
*बृ. उ. ६-३-२२.