SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ७४ विवेकचूडामणिः. द्रष्टुः श्रोतुर्वक्तः कर्तुः भोक्तविभिन्न एवाहम् । . नित्यनिरन्तरनिष्क्रियनिःसीमासङ्गपूर्णबोधात्मा ॥ ४९३ ॥ नाहमिदं नाहमदोऽप्युभयोरवभासकं परं शुद्धम् । बाह्याभ्यन्तरशून्यं पूर्ण ब्रह्माद्वितीयमेवाहम् ॥ ४९४ ॥ निरुपममनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम् । नित्यानन्दैकरसं सत्यं ब्रह्माद्वितीयमेवाहम् ॥ ४९५ ॥ नारायणोऽहं नरकान्तकोऽहं पुरान्तकोऽहं पुरुषोऽहमीशः । अखण्डबोधोऽहमशेषसाक्षी निरीश्वरोऽह निरहं च निर्ममः ॥ ४९६ ॥ सर्वेषु भूतेष्वहमेव संस्थितो ज्ञानात्मनाऽन्तर्बहिराश्रयः सन् । भोक्ता च भोग्यं स्वयमेव सर्व ____ तद्यत् पृथक् दृष्टमिदन्तया पुरा ॥ ४९७ ॥ मय्यखण्डसुखाम्भोधौ बहुधा विश्ववीचयः । उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात् ॥ ४९८ ॥ . स्थूलादिभावा मयि कल्पिता भ्रमात् आरोपितानुस्फुरणेन लोकैः । काले यथा कल्पकवत्सराय नादयो निष्कलनिर्विकल्पे ॥ ४९९ ॥ आरोपितं नाश्रयदूषकं भवेत् कदापि मूढमतिदोषदूषितैः । नार्दीकरोत्यूषरभूमिभागं मरीचिकावारिमहाप्रवाहः ॥ ५०० ॥ ज्ञाना.
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy