SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः. वाचा वक्तमशक्यमेव मनसा मन्तुं न वाऽऽस्वाद्यते स्वानन्दामृतपूरपूरितपरब्रह्माम्बुधेर्वैभवम् । अम्भोराशिविशीर्णवार्षिकशिलाभावं भजन्मे मनो यस्यांशांशलवे विलीनमधुनाऽऽनन्दात्मना निर्वृतम् ॥४८४॥ क्व गतं ? केन वा नीतं? कुन लीनमिदं जगत् ? । अधुनैव मया दृष्टं नास्ति किं.? महदद्भुतम् ॥ ४८५ ॥ किं हेयं ? किमुपादेयं ? किमन्यत् ? किं विलक्षणम् ? । अखण्डानन्दपीयूषपूर्णे ब्रह्ममहार्णवे ॥ ४८६ ॥ न किञ्चिदत्र पश्यामि न शृणोमि न वेद्मयहम् । स्वात्मनैव सदानन्दरूपेणास्मि विलक्षणः ॥ ४८७ ॥ . नमो नमस्ते गुरवे महात्मने . विमुक्तसङ्गाय सदुत्तमाय । नित्याद्वयानन्दरसस्वरूपिणे भूम्ने सदाऽपारदयाम्बुधाम्ने ॥ ४८८ ॥ यत्कटाक्षशशिसान्द्रचन्द्रिका पातधूतभवतापजश्रमः । प्राप्तवानहमखण्डवैभवा नन्दमात्मपदमक्षयं क्षणात् ॥ ४८९ ॥ धन्योऽहं कृतकृत्योऽहं विमुक्तोऽहं भवग्रहात् । नित्यानन्दस्वरूपोऽहं पूर्णोऽहं त्वदनुग्रहात् ॥ ४९० ॥ असङ्गोऽहमनङ्गोऽहं अलिङ्गोऽहमभङ्गरः । प्रशान्तोऽहमनन्तोऽहं अतान्तोऽहं चिरन्तनः ॥ ४९१ ॥ अकर्ताऽहमभोक्ताऽहं अविकारोऽहमक्रियः । शुद्धबोधस्वरूपोऽहं केवलोऽहं सदाशिवः ॥ ४९२ ॥ 1अमलो. ive-10
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy