________________
७
विवेकचूडामणि. स्वस्याविद्याबन्धसम्बन्धमोक्षात्
सत्यज्ञानानन्दरूपात्मलब्धौ । शास्त्रं युक्तिर्देशिकोक्तिः प्रमाणं
चान्तःसिद्धा स्वानुभूतिः प्रमाणम् ॥ ४७६ ॥ बन्धो मोक्षश्च तृप्तिश्च चिन्ताऽऽरोग्यक्षुधादयः । स्वनैव वेद्या यज्ज्ञानं परेषामानुमानिकम् ॥ ४७७ ॥ तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा । प्रज्ञयैव तरेद्विद्वान् ईश्वरानुगृहीतया ॥ ४७८ ॥ स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् । संसिद्धः सुसुखं तिष्ठेत् निर्विकल्पात्मनाऽऽत्मनि ॥ ४७९ ॥ वेदान्तसिद्धान्तनिरुक्तिरेषा
ब्रह्मैव जीवः सकलं जगच्च । अखण्डरूपस्थितिरेव मोक्षो
ब्रह्माद्वितीये श्रुतयः प्रमाणम् ॥ ४८० ॥ इति गुरुवचनात् श्रुतिप्रमाणात्
परमवगम्य सतत्त्वमात्मयुक्त्या । प्रशमितकरणः समाहितात्मा ___क्वचिदचलाकृतिरात्मनिष्ठितोऽभूत् ॥ ४८१ ॥ कश्चित् कालं समाधाय परे ब्रह्मणि मानसम् । व्युत्थाय परमानन्दात् इदं वचनमब्रवीत् ॥ ४८२ ॥
॥शि प्य स्य स्वा नु भ व क थ न म् ॥ बुद्धिर्विनष्टा गलिता प्रवृत्तिः
ब्रह्मात्मनोरेकतयाधिगत्या । इदं न जानेऽप्यनिदं न जाने
किं वा ? कियद्वा ? सुखमस्य पारम् ॥ ४८३॥