SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ७१ विवेकचूडामणिः. सद्धनं चिद्धनं नित्यमानन्दघनमक्रियम् । एकमेवाद्वयं ब्रह्म नेह नानाऽस्ति किञ्चन ॥ ४६७ ॥ प्रत्यगेकरसं पूर्ण अनन्तं सर्वतोमुखम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४६८ ॥ अहेयमनुपादेयं अनाधेयमनाश्रयम् । एकमेवाद्वयं ब्रह्म नेह नानाऽस्ति किञ्चन ॥ ४६९ ॥ निर्गुणं निष्कलं सूक्ष्म निर्विकल्पं निरञ्जनम् । एकमेवाद्वयं ब्रह्म ह नानास्ति किञ्चन ॥ ४७० ॥ अनिरूप्यस्वरूपं यत् मनोवाचामगोचरम् । एकमेवाद्वयं ब्रह्म नेह नानाऽस्ति किञ्चन ॥ ४७१ ॥ सत् समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनीदृशम् । एकमेवाद्वयं ब्रह्म नेह नानाऽस्ति किञ्चन ॥ ४७२ ॥ ॥ आ त्म योग : कर्तव्य : ॥ निरस्तरागा निरपास्तभोगाः शान्ताः सुदान्ता यतयो महान्तः । विज्ञाय तत्त्वं परमे तदन्ते प्राप्ताः परां निर्वृतिमात्मयोगात् ॥ ४७३ ॥ भवानपीदं परतत्त्वमात्मनः ___ स्वरूपभानन्दघनं विचार्य । . विधूय मोहं स्वमनःप्रकल्पितं मुक्तः कृतार्थों भवतु प्रबुद्धः ॥ ४७४ ॥ समाधिना साधुविनिश्चलात्मना पश्यात्मतत्त्वं स्फुटबोधचक्षुषा । निःसंशयः सम्यगवेक्षितश्चेत् श्रुतः पदार्थो न पुनर्विकल्पते ॥ ४७५ ॥
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy