________________
७०
विवेकचूडामणि:
तत्रानुवृत्तिर्यदि चेन्मृषार्थे
न निद्रया मुक्त इतीष्यते ध्रुवम् ॥ ४५८ ॥ तद्वत् परे ब्रह्मणि वर्तमान:
सदात्मना तिष्ठति नान्यदीक्षते । स्मृतिर्यथा स्वप्नविलोकितार्थे
तथा विदः प्राशनमोचनादी ॥ ४५९ ॥ कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् । नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः ॥ ४६० ॥
" अजो नित्यः "" इति ब्रूते श्रुतिरेषा त्वमोघवाक् । तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना ॥ ४६२ ॥ प्रारब्धं सिद्धयति तदा यदा देहात्मना स्थितिः । देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः ॥ ४६२ ॥
शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि । अभ्यस्तस्य कुतः सत्त्वम् ? असत्यस्य कुतो जनिः ? ॥४६३ अजातस्य कुतो नाश: ? प्रारब्धमसतः कुतः ? । ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि ॥ ४६४ ॥
तिष्ठत्ययं कथं देहः १ इति शङ्कावतो जडान् । समाधातुं बाह्यदृष्टया प्रारब्धं वदति श्रुतिः । न तु देहादिसत्यत्वबोधनाय विपश्चिताम् ॥ ४६५ ॥ [यतः श्रुतेरभिप्रायः परमार्थैकगोचरः । ]
॥ ब्रह्मणि ना ना त्व निषेधः ॥ परिपूर्णमनाद्यन्तं अप्रमेयमविक्रियम् । एकमेवाद्वयं ब्रह्म नेह नानाऽस्ति किञ्चन ॥ ४६६ ॥ कठ. २-३८.