________________
विवेकचूडामणिः. यत् कृतं स्वप्नवेलायां पुण्यं वा पापमुल्बणम् । सुप्तोत्थितस्य किं तत् स्यात् स्वर्गाय नरकाय वा ?॥४५०॥ स्वमसङ्गमुदासीनं परिज्ञाय नभो यथा । न श्लिष्यते यतिः किञ्चित् कदाचिद्भाविकर्मभिः ॥ ४५१ ॥ न नभो घटयोगेन सुरागन्धेन लिप्यते । तथाऽऽत्मोपाधियोगेन तद्धमै व लिप्यते ॥ ४५२॥ शानोदयात् पुराऽऽरब्धं कर्मज्ञानाम्न नश्यति । अदत्त्वा स्वफलं लक्ष्यं उद्दिश्योत्सृष्टबाणवत् ॥ ४५३ ॥ व्याघ्रबुद्धया विनिर्मुक्तो वाणः पश्चात्तु गोमतौ । न तिष्ठति छिनत्त्येव लक्ष्यं वेगेन निर्भरम् ॥ ४५४ ॥
प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः सम्यग्ज्ञानहुताशनेन विलयः प्राक्सञ्चितागामिनाम् । ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया ये सर्वदा संस्थिताः तेषां तत्त्रितयं न हि क्वचिदपि ब्रह्मैव ते निर्गुणम् ॥ ४५५ ॥ उपाधितादात्म्यविहीनकेवल
ब्रह्मात्मनैवात्मनि तिष्ठतो मुनेः । प्रारब्धसद्भावकथा न युक्ता
स्वप्नार्थसंबन्धकथेव जाग्रतः ॥ ४५६ ॥ न हि प्रबुद्धः प्रतिभासदेहे
देहोपयोगिन्यपि च प्रपञ्चे । करोत्यहन्तां ममतामिदन्तां
किन्तु स्वयं तिष्ठति जागरेण ॥ ४५७ ॥ न तस्य मिथ्यार्थसमर्थनेच्छा
न संग्रहस्तजगतोऽपि दृष्टः ।