________________
६८
विवेकचूडामणिः.
देहेन्द्रियेष्वभावः इदं भावस्तदन्यके |
यस्य नो भवतः कापि स जीवन्मुक्त इष्यते ॥ ४४० ॥ न प्रत्यब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः । प्रज्ञया यो विजानाति स जीवन्मुक्त इष्यते ॥ ४४९ ॥ साधुभिः पूज्यमानेऽस्मिन् पीड्यमानेऽपि दुर्जनैः । समभावो भवेद्यस्य स जीवन्मुक्त इष्यते ॥ ४४२ ॥
॥ ज्ञानात् कर्मविलयः ॥ यत्र प्रविष्टा विषयाः परेरिताः नदीप्रवाहा इव वारिराशौ । लिनन्ति सन्मात्रतया न विक्रियां
उत्पादयन्त्येष यतिर्विमुक्तः ॥ ४४३ ॥
विज्ञातब्रह्मतत्त्वस्य यथापूर्वे न संसृतिः । अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः ॥ ४४४ ॥
प्राचीनवासनावेगात् असौ संसरतीति चेत् । न सदेकत्वविज्ञानात् मन्दी भवति वासना ॥ ४४५ ॥ अत्यन्तकामुकस्यापि वृत्तिः कुण्ठति मातरि । तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः ॥ ४४६ ॥ निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्ष्यते । ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात् ॥ ४४७ ॥
सुखाद्यनुभवो यावत् तावत् प्रारब्धमिष्यते । फलोदयः क्रियापूर्वो निष्क्रियो न हि कुत्रचित् ॥ ४४८ ॥
अहं ब्रह्मेति विज्ञानात् कल्पकोटिशतार्जितम् । सीतं विलयं याति प्रबोधात् स्वप्नकर्मवत् ॥ ४४९ ॥