________________
विवेकचूडामणिः
ब्रह्मात्मनो: शोधितयोः एकभावावगाहिनी । निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते । सा सर्वदा भवेद्यस्य स जीवन्मुक्त उच्यते ॥ ४२९ ॥
यस्य स्थिता भवेत् प्रज्ञा यस्यानन्दो निरन्तरः । प्रपो विस्मृतप्रायः स जीवन्मुक्त इष्यते ॥ ४३० ॥
लीनधीरपि जागर्ति यो जाग्रद्धर्मवर्जितः । वोध निर्वासन यस्य स जीवन्मुक्त इष्यते ॥ ४३१ ॥
शान्तसंसारकलनः कलावानपि निष्कलः । यः सचित्तोऽपि निश्चिन्तः स जीवन्मुक्त इष्यते ॥ ४३२ ॥
वर्तमानेऽपि देहेऽस्मिन् छायावदनुवर्तिनि ।
अहन्ताममा भावी जीवन्मुक्तस्य लक्षणम् ॥ ४३३ ॥
६७
अतीताननुसन्धानं भविष्यदविचारणम् । औदासीन्यमपि प्राप्ते जीवन्मुक्तस्य लक्षणम् ॥ ४३४ ॥
गुणदोषविशिष्टेऽस्मिन् स्वभावेन विलक्षणे । सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम् ॥ ४३५ ॥ surfter प्राप्त समदर्शितयाऽऽत्मनि । उभयत्राविकारित्वं जीवन्मुक्तस्य लक्षणम् ॥ ४३६ ॥ ब्रह्मानन्दरसास्वादासकचित्ततया यतेः ।
अन्तर्वहिरविज्ञानं जीवन्मुक्तस्य लक्षणम् ॥ ४३७ ॥ देहेन्द्रियादी कर्तव्ये ममाभाववर्जितः । औदासीन्येन यस्तिष्ठेत् स जीवन्मुक्त इष्यते ॥ ४३८ ॥ विज्ञान आत्मनो यस्य ब्रह्मभावः श्रुतेर्बलात् । भवबन्धविनिर्मुक्तः स जीवन्मुक्त इष्यते ॥ ४३९ ॥ सुस्थिता सा भवेत्तस्य स्थितप्रज्ञस्स उच्यते ॥