________________
६६
विवेकचूडामणिः .
संसिद्धस्य फलं त्वेतत् जीवन्मुक्तस्य योगिनः । बहिरन्तः सदानन्दरसास्वादनमात्मनि ॥ ४२० ॥ वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् | स्वानन्दानुभवाच्छान्तिः एवोपरतेः फलम् ॥ ४२१ ॥ यद्युत्तरोत्तराभावः पूर्वपूर्व तु निष्फलम् । निवृत्तिः परमा तृप्तिः आनन्दोऽनुपम: स्वतः || ४२२ ॥ दृष्टदुःखेष्वनुद्वेगो विद्याया: प्रस्तुतं फलम् । यत् कृतं भ्रान्तिवेलाय नानाकर्म जुगुप्सितम् । पश्वानरो विवेकेन तत् कथं कर्तुमर्हति ? विद्याफलं स्यादसतो निवृत्तिः प्रवृत्तिरज्ञानफलं तदीक्षितम् । तज्ज्ञाशयोर्यन्मृगतृष्णिकादौ
४२३ ॥
नो चेद्विदो दृष्टफलं किमस्मात् ? ॥ ४२४ ॥
अज्ञानहृदयग्रन्थेः विनाशो यद्यशेषतः ।
अनिच्छोर्विषयः किन्नु प्रवृत्तेः कारणं स्वतः ? ॥ ४२५ ॥
वासनानुदयो भोग्ये वैराग्यस्य तदाऽवधिः । अहंभावोदयाभावो बोधस्य परमावधिः । लीनवृत्तेरनुत्पत्तिः मर्यादोपतेस्तु सा ॥ ४२६ ॥ ब्रह्माकारतया सदा स्थिततया निर्मुक्तवाह्यार्थधीः
अन्यावेदितभोग्यभोगकलनो निद्रालुवहालवत् । स्वप्नालोकितलोकवजगदिदं पश्यन् क्वचित् लब्धधीः आस्ते कश्चिदनन्तपुण्यफलभुग्धन्यः स मान्यो भुवि ॥ ४२७
॥ जी व न्मुक्ति लक्षण म् ॥
स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते । ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः ॥ ४२८ ॥