________________
६५
विवेकचूडामणिः. अजरममरमस्ताभाववस्तुस्वरूपं
स्तिमितसलिलराशिप्रख्यमाख्याविहीनम् । शमितगुणविकारं शाश्वतं शान्तमेकं
हृदि कलयति विद्वान् ब्रह्म पूर्ण समाधौ ॥ ४१२ ॥ समाहितान्तःकरणः स्वरूपे
विलोकयात्मानमखण्डवैभवम् । विच्छिन्द्धि बन्धं भवगन्धगन्धिलं
यत्नेन पुंस्त्वं सफलीकुरुष्व ॥ ४१३ ॥ सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम् । भावयात्मानमात्मस्थं न भूयः कल्पसेऽध्वने ॥ ४१४ ॥ छायेव पुंसः परिदृश्यमानं आभासरूपेण फलानुभूत्या । शरीरमाराच्छववनिरस्तं पुनर्न सन्धत्त इदं महात्मा ॥४१५॥ सततविमलबोधानन्दरूपं समेत्य
त्यज जडमलरूपोपाधिमे सुदूरे । अथ पुनरपि नैव स्मर्यतां वान्तवस्तु
स्मरणविषयभूतं कल्पते कुत्सनाय ॥ ४१६ ॥ समूलमेतत् परिदह्य वह्नौ सदात्मनि ब्रह्मणि निर्विकल्पे । ततः स्वयं नित्यविशुद्धबोधानन्दात्मना तिष्ठति विद्वरिष्ठः॥४१७
प्रारब्धसूत्रप्रथितं शरीरं - प्रयातु वा तिष्ठतु गोरिव स्रक् । न तत् पुनः पश्यति तत्त्ववेत्ताऽऽ
____ नन्दात्मनि ब्रह्मणि लीनवृत्तिः ॥ ४१८ ॥ अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः । किमिच्छन् कस्य वा हेतोः देहं पुष्णाति तत्त्ववित् ? ॥४१९
_iv-9