SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ૪ विवेकचूडामणिः. तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम् । अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ? ॥ ४०४ ॥ एकात्मके परे तत्त्वे भेदवार्ता कथं भवेत् ? । सुषुप्तौ सुखमानायां भेदः केनावलोकितः १ ॥ ४०५ ॥ नास्ति विश्व परतत्त्वबोधात् सदात्मनि ब्रह्मणि निर्विकल्पे | कालत्रये नाप्यहिरीक्षितो गुणे न ह्यम्बुबिन्दुर्मृगतृष्णिकायाम् ॥ ४०६ ॥ " मायामात्रमिदं द्वैतमद्वैतं परमार्थतः " । " इति ब्रूते श्रुतिः साक्षात् सुषुप्तावनुभूयते ॥ ४०७ ॥ अनन्यत्वमधिष्ठानात् आरोप्यस्य निरीक्षितम् । पण्डितैरज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः ॥ ४०८ ॥ चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन । अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि ॥ ४०९ ॥ किमपि सततबोधं केवलानन्दरूपं निरुपममतिवेलं नित्यमुक्तं निरीहम् । निरवधि गगनाभं निष्कलं निर्विकल्पं हृदि कलयति विद्वान् ब्रह्म पूर्ण समाधौ ॥ ४१० ॥ प्रकृतिविकृतिशून्यं भावनातीतभावं समरसमसमानं मानसं बन्धदूरम् । निगमवचनसिद्धं नित्यमस्मत्प्रसिद्धं हृदि यति विद्वान् ब्रह्म पूर्ण समाधी ॥ ४११ ॥ 'गौड, १-१७.
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy