SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः. ब्रह्मैवाहमिति प्रबुद्धमतयः संत्यक्त बाह्याः स्फुटं ब्रह्मीभूय वसन्ति सन्ततचिदानन्दात्मनैव ध्रुवम् ॥३९६॥ जहि मलमयकोशेऽहंधियोत्थापिताशां प्रसभमलिकल्पे लिङ्गदेहेऽपि पश्चात् । निगमगदितकीर्ति नित्यमानन्दमूर्ति स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ ॥ ३९७ ॥ शवाकारं यावद्भजति मनुजस्तावदशुचिः परेभ्यः स्यात् क्लेशो जननमरणव्याधिनिरया: 1 | दाssत्मानं शुद्धं कलयति शिवाकारमचलं तदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिरपि ॥ ३९८ ॥ स्वात्मन्यारोपिताशेषाभासवस्तुनिरासतः । स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम् ॥ ३९९ ॥ समाहितायां सति चित्तवृत्तौ परात्मनि ब्रह्मणि निर्विकल्पे | न दृश्यते कश्चिदयं विकल्पः प्रजल्पमात्रः परिशिष्यते ततः ॥ ४०० ॥ असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि । निर्विकारे निराकारे निर्विशेषे भिदा कुतः ? ॥ ४०९ ॥ द्रष्टृदर्शनद्दश्यादिभावशून्यैकवस्तुनि | निर्विकारे निराकारे निर्विशेषे भिदा कुतः ? ॥ ४०२ ॥ कल्पार्णव इवात्यन्तपरिपूर्णेकवस्तुनि । निर्विकारे निराकारे निर्विशेषे भिदा कुतः ? ॥ ४०३ ॥ निलया:.
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy